सिताखण्डः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिताखण्डः, पुं, (सितायाः खण्डो यत्र ।) मधुजातशर्करा । तत्पर्य्यायः । खण्डकः २ सितजा ३ शर्करजा ४ माधवी ५ मधुशर्करा ६ माक्षीकशर्करा ७ । अस्य गुणाः । अति- मधुरत्वम् । चक्षुष्यत्वम् । छर्द्दिकुष्ठव्रणकफ- श्वासहिक्कापित्तास्रदोषनाशित्वञ्च । इति राज- निर्घण्टः ॥
