सितार्ज्जकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सितार्ज्जकः, पुं, (सितमर्ज्जयतीति । अर्ज्ज + ण्वुल् ।) श्वेततुलसी । श्वेताजवला इति हिन्दी भाषा । तत्पर्य्यायः । वैकुण्ठः २ वटपत्रः ३ कुठेरकः ४ जम्बीरः ५ गन्धवहलः ६ सुमुखः ७ कटुपत्रकः ८ । अस्य गुणाः । कटुत्वम् । उष्ण- त्वम् । कफवातनेत्रामयनाशित्वम् । रुच्यत्वम् । सुखप्रसवकारकत्वञ्च । इति राजनिर्घण्टः ॥
