सितेतरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सितेतरः, पुं, (सितादितरः ।) श्यामशालिः । कुलत्थः । इति राजनिर्घण्टः ॥ शुक्लेतरवर्णश्च ॥ (यथा, कुमारे । ३८ । “नीविमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्च्चिः ॥” सितश्च इतरश्च इति विग्रहे । कृष्णशुक्लौ । अत्र द्विवचनप्रयोगः स्यात् । यथा, भागवते । १० । ४१ । ४१ । “नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतुः । स्वलङ्कृतौ बालगजौ पर्व्वणीव सितेरतौ ॥”)
