सिद्ध

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धम्, क्ली, (सिध + क्तः ।) सैन्धवलवणम् । इति राजनिर्घण्टः ॥

सिद्धः, पुं, (सिध + क्तः) देवयोनिविशेषः । इत्यमरः । १ । १ । ११ ॥ स तु अणिमादिगुणो- पेतो विश्वावसुप्रभृतिः । इति भरतः ॥ (यथा, कुमारे । १ । ५ । “उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥”) व्यासादिः । विस्कम्भादिसप्तविंशतियोगान्तर्गतै- कविंशयोगः । इति मेदिनी ॥ तत्र जातफलम् । “जितेन्द्रियः सर्व्वकलानिधानो गौरोऽतिशूरो मधुरो विनीतः । सत्योपपन्नः कृतभूरिभोगो यस्य प्रसूतौ किल सिद्धयोगः ॥” इति कोष्ठीप्रदीपः ॥ व्यवहारः । इति शब्दरत्नावली ॥ कृष्ण- धुस्तूरः । गुडः । इति राजनिर्घण्टः ॥

सिद्धः, त्रि, (सिध + क्तः ।) प्रसिद्धः । (यथा, भागवते । १० । १८ । १६ । “एवं तौ लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने ॥”) नित्यः । निष्पन्नः । इति शब्दरत्नावली ॥ (यथा, रामायणे । २ । ९८ । ८ । “सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलोपमम् । मुखं पश्यति रामस्य राजीवाक्षं महाद्युतिम् ॥”) मुक्तः । इति हेमचन्द्रः ॥ (यथा, भागवते । ६ । १२ । १९ । “अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी ॥”) पक्वम् । यथा, सुमन्तुः । “पर्य्युसितं पुनःसिद्धमभोज्यमन्यत्र हिरण्यो- दकस्पर्शात् ।” इति श्राद्धतत्त्वम् ॥ मन्त्रसिद्धि- विशिष्टः । यथा, -- अथ मन्त्रसिद्धेरुपायाः । गौतमीये । “सम्यगनुष्ठितो मन्त्रो यदि सिद्धिर्न जायते । पुनस्तेनैव कर्त्तव्यं ततः सिद्धो भवेद्ध्रु वम् ॥ पुनरनुष्ठितो मन्त्रो यदि सिद्धिर्न जायते । पुनस्तेनैव कर्त्तव्यं ततः सिद्धो न संशयः ॥ पुनः सोऽनुष्ठितो मन्त्रो यदि सिद्धिर्न जायते । उपायास्तत्र कर्त्तव्याः सप्त शङ्करभाषिताः । भ्रामणं रोधनं वश्यं पीडनं पोषशोषणम् । दहनान्तं क्रमात् कुर्य्यात् ततः सिद्धो भवेन्मनुः ॥ भ्रामणं वायुवीजेन यथानुक्रमयोगतः । तम्मन्त्रं यन्त्र आलिख्य सिद्धकर्पूरकुङ्कुमैः । उशीरचन्दनाभ्यान्तु मन्त्रं संग्रथितं लिखेत् । क्षीराज्यमधुतोयानां मध्ये तल्लिखितं भवेत् ॥ पूजनाज्जपनाद्धोमात् भ्रामितः सिद्धिदो भवेत् भ्रमितो यदि न सिद्धः स्याद्रोधनं तस्य कारयेत् सारस्वतेन बीजेन संपुटीकृत्य संजपेत् । एवं रुद्धे भवेत् सिद्धो न चेदेतद्वशीकुरु ॥ अलक्तचन्दनं कुष्ठं हरिद्रा मादनं शिला । एतैस्तु मन्त्रमालिख्य भूर्ज्जपत्रे सुशोभने । धार्य्यकण्टे भवेत् सिद्धः पीडनं वास्य कारयेत् ॥ अधरोत्तरयोगेन पदानि परिजप्य वै । ध्यायेच्च देवतां तद्वत् अधरोत्तररूपिणीम् ॥ विद्यामादित्यदुग्धे न लिखित्वाक्रम्य चाङ्घ्रिणा तथाभूतेन मन्त्रेण होमः कार्य्यो दिने दिने ॥ पीडितो लज्जयाविष्टः सिद्धः स्यादथ पोषयेत् । बालायान्त्रितयं बीजं आद्यन्ते तस्य योजयेत् ॥ गोक्षीरमधुनालिख्य विद्यां पाणौ विभावयेत् । पोष्रितोऽयं भवेत् सिद्धो न चेत् कुर्व्वीत शोषणम् ॥ द्वाभ्यान्तु वायुबीजाभ्यां मन्त्रं कुर्य्याद्विदर्भिणम् एषा विद्या गले धार्य्या लिखित्वा वरभस्मना ॥ शोषितोऽपि न सिद्धः स्यात् दहनीयोऽग्नि- बीजतः । आग्नेयेन तु बीजेन मन्त्रस्यैकैकमक्षरम् ॥ आद्यन्तमध ऊर्द्धञ्च योजयेद्दाहकर्म्मणि । ब्रह्मवृक्षस्य तैलेन मन्त्रमालिख्य धारयेत् ॥ कण्ठदेशे ततो मन्त्रः सिद्वः स्याच्छङ्करोदितम् । इत्येतत् कथितं सम्यक् केवलं तव भक्तितः ॥ एकेनेव कृतार्थः स्याद्बहुभिः किमु सुव्रते ॥” इति तन्त्रसारः ॥ * ॥ सिद्धिविशिष्टः । स च चतुस्त्रिंशद्विधः । यथा, -- “चतुस्त्रिंशद्विधः सिद्धः सर्व्वकर्म्मोपकारकः । तमुपैति स्वयं सिद्धं भक्तस्तं नैव वाञ्छति ॥ द्वात्रिंशद्विधं सिद्धं सर्व्वसाधनकारणम् । मन्मुखात् श्रूयतां नन्द सिद्धमन्त्रं गृहाण च ॥ अणिमा लघिमा प्राप्तिः प्राकाम्य महिमा तथा ईशित्वञ्च वशित्वञ्च तथा कामावसायिता ॥ दूरश्रवणमेवेति परकायप्रवेशनम् । मनोवायित्वमेवेति सर्व्वज्ञत्वमभीप्सितम् ॥ वह्निस्तम्भं जलस्तम्भं चिरजीवित्वमेव वा । वायुस्तम्भं क्षुत्पिपासानिद्रास्तम्भनमेव च ॥ कायव्यूहञ्च वाक्सिद्धं मृतानयनमीप्सितम् । सृष्टीनां कारणञ्चैव प्राणाकर्षणमेव च ॥ प्राणानाञ्च प्रदानञ्च लोभादीनाञ्च स्तम्भनम् । इन्द्रियाणां स्तम्भनञ्च बुद्धिस्तम्भनमेव च ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ७८ । २०-२९

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्ध पुं।

देवयोनिः

समानार्थक:विद्याधर,अप्सरस्,यक्ष,रक्ष,गन्धर्व,किन्नर,पिशाच,गुह्यक,सिद्ध,भूत

1।1।11।2।3

विद्याधराप्सरोयक्षरक्षोगन्धर्व किन्नराः। पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः॥

 : अप्सरस्, हाहानामदेवगायकः, हूहूनामदेवगायकः, देवगायकः, राक्षसः, किन्नरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

सिद्ध वि।

सिद्धः

समानार्थक:सिद्ध,निर्वृत्त,निष्पन्न

3।1।100।2।1

निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ। सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्ध¦ न॰ सिध--क्त।

१ सैन्धबलबणे राजनि॰ अकृत्रिमत्वा-तयात्वम्

२ निष्पन्ने

३ पक्वे

४ नित्ये च त्रि॰ शब्दर॰। सिद्धिरस्त्यस्य अच्।

५ व्यासादौ मुनौ

६ देवयोनिभदेच पु॰ अमरः तल्लोकश्च चन्द्रलोकादधःस्थो व्यामस्थितःयथोक्तं सू॰ सि॰
“मन्दामारज्यभूपुत्रसूर्य्यशुक्रेन्दुजे-न्दवः। परिभ्रमन्त्यधोऽधःस्थाः सिद्धविद्याधरा घनाः”

७ निश्चिते त्रि॰

८ विष्कम्भादिषु मध्ये द्वाविंशयोगे ज्यो॰

८ गुडे

१० कृष्णधुस्तूरे पु॰ राजनि॰।

११ सूक्ते त्रि॰हेमच॰

१२ व्यापारे पु॰ शब्दर॰ ज्यातिषाक्ते

१३ यो-गिनीदशामध्ये सप्तम्यां दशायां स्त्री। दशाशब्द

३५

०५ पृ॰ दृश्यम्। तन्त्रोक्ते अकथहचक्रस्थे साधक-[Page5294-a+ 38] नामाद्याक्षरयुक्तकोष्ठस्थाद्याक्षरयुक्ते

१४ मन्त्रभेदे पु॰अकथहशब्दे

३८ पृ॰ दृश्यम्।

१५ घञादिवाच्ये क्रियाभेदे स्त्री

१६ सिद्धियुते मन्त्रे पु॰
“मन्त्रसिद्धेरुपायश्च गौतमीये
“पुनः सोऽनुष्ठितो मन्त्रो यदि सिद्धो न जायते। उपायास्तत्र कर्त्तव्याः सप्त शङ्करभाषिताः। भ्रामणंरोघनं वश्यं पीडनं पोषशोषणम्। दहनान्तंक्रमात् कुर्य्यात् ततः सिद्धो भवेन्मनुः। भ्रामणंवायुवीजेन यथानुक्रमयोगतः। तन्मन्त्रं यन्त्र आलिख्य सिह्लकर्पूरकुङ्कुमैः। उशीरचन्दनाभ्यान्तु मन्त्रसंग्रथितं लिखेत्। क्षीराज्यमधुतोयानां मध्ये तल्लि-खितं भवेत्। पूजनाज्जपनाद्धोमात् भ्रामितः सिद्धिदोभवेत्। भ्रामितो यदि नो सिद्धो रोधनं तस्य कार-येत्। सारस्वतेन वीजेन संपुटीकृत्य संजपेत्। एवंरुद्धे भवेत् सिद्धो न चेदेतद्वशीकुरु। अलक्तचन्दनं कुष्ठंहरिद्रामादनं शिला। एतैस्तु मन्त्रमालिख्य भूर्ज-पत्रे सुशोभने। धार्य्यं कण्ठे भवेत् सिद्धः पीडनं वास्यकारयेत्। अधरोत्तरयोगेन पदानि परिजप्य वै। ध्या-येच्च देवतां तद्वत् अधरोत्तररूपिणीम्। विद्यामादित्यदुग्धेन लिखित्वाक्रम्य चाङ्घ्रिणा। तथाभूतेन मन्त्रेणहोमः कार्य्यो दिने दिने। पीडितो लज्जयाविष्टःसिद्धः स्यादथ पोषयेत्। बालायास्त्रितयं वीजमाद्यन्तेतस्य योजयेत्। गोक्षीरमधुनालिख्य विद्यां पाणौविभावयेत्। पोषितोऽयं भवेत् सिद्धो न चेत् कुर्वीत-शोषणम्। द्वाभ्यान्तु वायुवीजाभ्यां मन्त्रं कुर्य्याद्वि-दर्भिणम्। एषा विद्या गले धार्य्या लिखित्वा वरभस्मना। शोषितोऽपि न सिद्धः स्यात् दहनीयोऽग्निवी-जतः। आग्नेयेन तु वीजेन मन्त्रस्यैकैकमक्षरम्। आ-द्यन्तमध ऊर्द्ध्वञ्च योजयेद्दाहकर्मणि। ब्रह्मवृक्षस्यतैलेन मन्त्रमालिख्य धारयेत्। कण्ठदेशे ततो मन्त्रःसिद्धः स्याच्छङ्करोदितम्। इत्येतत्कथितं सम्यक् केवलंतव भक्तितः। एकेनैव कृतार्थः स्याद् बहुभिः कुमुमुव्रते!” तन्त्रसारः।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Accomplished, effected, completed.
2. Libera- ted, emancipated.
3. Always, eternal.
4. Celebrated, famous.
5. Judg- ed, decided, terminated, (as a law suit.)
6. Valid, (in law.)
7. Adept initiated, in alchemy or magic.
8. Demonstrated, proved, (in logic.)
9. Finished.
10. Cooked, dressed.
11. Prepared, compounded, (in medicine.)
12. Shining, splendid.
13. Discharged, (as a debt.)
14. Obtained, acquired.
15. Succeeded, successful.
16. Settled, estab- lished.
17. Admitted to be true or right.
18. Paid, liquidated, (as a debt.)
19. Ready, (as money.)
20. Concocted, (as drugs.)
21. Matured, ripened.
22. Subdued, (by magical power.)
23. Tho- roughly skilled, (in any art.)
24. Perfected or sanctified, (by pen- ance or austerities.)
25. Endowed with supernatural faculties or powers.
26. Sacred, pious.
27. Divine, immortal. m. (-द्धः)
1. A divine personage of undefined attributes or character; a sort of demigod or spirit, inhabiting with the Vidya4dharas, Munis, &c. in the middle air, or the region between the earth and sun.
2. An inspired or prophetic writer, as VYA4SA and others, or one to whom the past, present, and future, are supposed to be known, a sage, a seer.
3. The twenty-first of the astronomical Yo4gas.
4. An adept, a magician, one who by the performance of certain mystical and magical rites has acquired superhuman powers.
5. An ascetic, who by mystical and austere practices has effected one or all of five purposes, viz:--the affluence, the form or the society of the gods, residence in the divine Lokas or identification with a deity.
6. A law suit, a judicial trial.
7. A sort of hard sugar. n. (-द्धं) Sea-salt. f. (-द्धा) A medi- cinal root, commonly Rid'dhi. E. षिध् to effect, aff. क्त | [Page787-a+ 60]

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्ध [siddha], p. p.

Accomplished, effected, performed, achieved, completed.

Gained, obtained, acquired.

Succeeded, successful; one who has attained his object; याताबला व्रजं सिद्धा मयेमा रंस्थथ क्षपाः Bhāg.1.22.27.

Settled, established; नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि U.1.14.

Proved, demonstrated, substantiated; तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् T. S.; साक्षिप्रत्ययसिद्धानि (कार्याणि) Ms.8.178.

Valid, sound (as a rule).

Admitted to be true.

Decided, adjudicated (as a law-suit).

Paid, discharged, liquidated (as debt).

Cooked, dressed (as food); अभ्रच्छाया खलप्रीतिः सिद्धमन्नं च योषितः । किंचित्कालोपभोग्यानि यौवनानि धनानि च ॥Pt.2.117.

Matured, ripened.

Thoroughly prepared, compounded, cooked together (as drugs).

Ready (as money).

Subdued, won over, subjugated (as by magic).

Brought under subjection, become propitious.

Thoroughly conversant with or skilled in, proficient in; as in रस- सिद्ध q. v.

Perfected, sanctified (as by penance); अप्रमत्तो$खिलस्वार्थे यदि स्यात् सिद्ध आत्मनि Bhāg.11.23.29.

Emancipated.

Endowed with supernatural powers or faculties.

Pious, sacred, holy.

Divine, immortal, eternal.

Celebrated, well-known, illustrious; अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः Rām.1.15.2; एवं तौ लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने Mb.1.18.16.

Shining, splendid.

Hit (as a mark).

Peculiar, singular.

Invariable, unalterable.

Satisfied; Bhāg.11.23.29.

द्धः A semi-divine being supposed to be of great purity and holiness, and said to be particularly characterized by eight supernatural faculties called Siddhis q. v.; उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातप- वन्ति सिद्धाः Ku.1.5.

An inspired sage or seer (like Vyāsa).

Any sage or seer, a prophet; सिद्धादेश Ratn.1.

One skilled in magical arts, a magician.

A law-suit, judicial trial.

A kind of hard sugar.

The dark thorn-apple.

One who has attained his object; सिद्धः कचो वत्स्यति मत्सकाशे Mb.1.76.7. -द्धम् Sea-salt. -Comp. -अङ्गना, -योषित् a beatified woman, a female siddha. -अञ्जनम् magical ointment or collyrium; वसुपूर्णन् कलशान् सिद्धाञ्जनेन ज्ञात्वा Dk.1.4.

अन्तः the established end.

the demonstrated conclusion of an argument, established view of any question, the true logical conclusion (following on the refutation of the Pūrvapakṣa).

a proved fact, established truth, dogma, settled doctrine.

any established text-book resting on conclusive evidence; मध्येसभं दैवविदः सर्वसिद्धान्त- पारगाः Śiva B.6.8. ˚कोटिः f. the point in an argument which is regarded as a logical conclusion. ˚कौमुदी N. of a celebrated commentary on Pāṇini's grammar by भट्टोजी- दीक्षित. ˚पक्षः the logically correct side of an argument.-अन्नम् cooked food. -अर्थ a. one who has accomplished his desired object, successful.

(र्थः) white mustard; यन्त्रस्थसिद्धार्थपदाभिषेकं लब्ध्वाप्यसिद्धार्थममन्यत स्वम् N.1.6; अविरललग्नगौरसिद्धार्थकप्रकारतया काञ्चनरसखचितामिव मालाम् K. (Pūrvabhāga); Bhāg.4.9.59.

N. of Śiva.

of the great Buddha.

आदेशः the prediction of a seer.

a prophet, fortune-teller. -आपगा f. the river Gaṅgā. -आसनम् a particular posture in religious meditation. -औषधम् a specific panacea. -काम a. having the wishes fulfilled. -क्षेत्रम् the abode of sages or Siddhas. -गङ्गा, -नदी, -सिन्धुः the celestial Ganges. -ग्रहः N. of a particular kind of madness or dementia. -जलम्, -सलिलम् sour rice-gruel. -देवः N. of Śiva. -द्रव्यम् any magical object. -धातुः quick-silver. -नरः sorcerer, fortune-teller. -पक्षः the established or logical side of an argument. -पथः the atmosphere; छिन्नाः सिद्धपथे देवा- र्लघुहस्तैः सहस्रधा Bhāg.6.1.25. -पुरुषः = सिद्धः (1,3,4) above. -पुष्पः the Karavīra plant. -प्रयोजनः white mustard. -मानस a. having a completely satisfied mind.-मोदकः sugar prepared from bamboo-manna.-यात्रिकः one wandering about for the acquisition of magical power; Pt.5. -योगः magical agency. -योगिन्m. an epithet of Śiva. -रस a. mineral;, metallic.

(सः) quick-silver; अयोविकारे स्वरितत्वमिष्यते कुतो$यसां सिद्धरस- स्पृशामपि N.9.42.

an alchemist. -रूपम् the right or correct thing. -लक्ष a. one who has hit the mark.-लोकः the world of the Blest (सिद्ध). -वस्तिः a strong injection (of oil &c.); Suśr. -विद्या the doctrine relating to perfect beings. -वेदनः an elephant having perfect sensitivity; Mātaṅga L.8.25. -व्यञ्जनः an ascetic-spy; सिद्धव्यञ्जनैर्माणवप्रकाशनम् Kau. A.4. -संकल्प a. one who has accomplished his desired object. -संबन्ध a. one whose kindred are well known. -साधकः N. of Śiva. -साधनः white mustard.

(नम्) the performance of magical rites for the acquisition of supernatural powers &c.

the materials employed in mystical or chemical processes. -साधित a. one who has learned by practice (not by study). -साध्य a. accomplished, proved. (-ध्यम्) a dogma, demonstrated conclusion. -सिद्ध a. thoroughly efficacious. -सेनः N. of Kārtikeya. -स्थाली the boiler or pot of a seer (it is supposed to be a vessel which is gifted with the property of overflowing with any kind of food at the desire of the possessor). -हेमन् purified gold.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्ध mfn. driven off , scared away Pan5cavBr.

सिद्ध mfn. accomplished , fulfilled , effected , gained , acquired MBh. Ragh.

सिद्ध mfn. one who has attained his object , successful BhP.

सिद्ध mfn. one who has attained the highest object , thoroughly skilled or versed in( dat. or comp. ) MBh. R. etc.

सिद्ध mfn. perfected , become perfect , beatified , endowed with supernatural faculties(See. 2. सिद्धि) ib.

सिद्ध mfn. sacred , holy , divine , illustrious W.

सिद्ध mfn. hit (as a mark) Katha1s.

सिद्ध mfn. prepared , cooked , dressed (as food) Mn. MBh. etc.

सिद्ध mfn. healed , cured Pan5cat.

सिद्ध mfn. valid (as a rule in grammar See. अस्)

सिद्ध mfn. admitted to be true or right , established , settled , proved Pat. Mn. Sa1m2khyak. Sarvad.

सिद्ध mfn. resulting from W.

सिद्ध mfn. adjudicated , decided , terminated (as a lawsuit) W.

सिद्ध mfn. paid , liquidated , settled (as a debt) ib.

सिद्ध mfn. ready for payment (as money) Hit.

सिद्ध mfn. well-known , notorious , celebrated(= प्रसिद्ध) A1s3vS3r. R. etc.

सिद्ध mfn. effective , powerful , miraculous , supernatural Ca1n2. Ra1jat.

सिद्ध mfn. Vet

सिद्ध mfn. subdued , brought into subjection (by magical powers) , subject or obedient to( gen. ) Pan5cat. Katha1s.

सिद्ध mfn. peculiar , singular Ma1lati1m.

सिद्ध mfn. invariable , unalterable Pat.

सिद्ध m. a सिद्धor semidivine being of great purity and perfection and said to possess the eight supernatural faculties(See. 2. सिद्धि; accord. to some , the सिद्धs inhabit , together with the मुनिs etc. , the भुवर्-लोकor atmosphere between the earth and heaven ; accord. to VP. eighty-eight thousand of them occupy the regions of the sky north of the sun and south of the seven ऋषिs ; they are regarded as immortal , but only as living to the end of a कल्प[ q.v. ] ; in the later mythology the are some times confused with the ; साध्यs [ q.v. ] or take their place) A1s3vGr2. MBh. etc.

सिद्ध m. any inspired sage or prophet or seer( e.g. व्यास, कपिलetc. ) ib.

सिद्ध m. any holy personage or great saint ( esp. one who has attained to one of the states of beatitude See. सालोक्य) MBh. Ka1v. etc.

सिद्ध m. any great adept in magic or one who has acquired supernatural powers ib.

सिद्ध m. (with जैनs) a जिनor अर्हत्

सिद्ध m. N. of the number 24(cf. जिन)

सिद्ध m. the 21st of the astron. योगs. L.

सिद्ध m. a lawsuit , judicial trial(= व्यवहार) L.

सिद्ध m. N. of a देव-गन्धर्वMBh.

सिद्ध m. of a राजर्षिib.

सिद्ध m. of a king Ra1jat.

सिद्ध m. of a brother of जज्जib.

सिद्ध m. of a Brahman Buddh.

सिद्ध m. of an author Cat.

सिद्ध m. a kind of thorn-apple L.

सिद्ध m. another plant or a sort of hard sugar(= गुड) L.

सिद्ध m. ( pl. )N. of a people MBh. VP.

सिद्ध m. N. of one of the योगिनीs(See. ) L. ( accord. to Sa1h. सिद्धाis also used at the end of names of courtezans)

सिद्ध m. a kind of medicinal plant or root(= ऋद्धि) L.

सिद्ध n. magic , supernatural power Pan5car.

सिद्ध n. sea-salt L.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Krodha and a deva gandharva. Br. III. 6. ३८.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Siddha : m. (pl.): Name of a Janapada.

Mentioned by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (barbarāḥ siddhā…) 6. 10. 55.


_______________________________
*1st word in left half of page p906_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Siddha : m. (pl.): Name of a Janapada.

Mentioned by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (barbarāḥ siddhā…) 6. 10. 55.


_______________________________
*1st word in left half of page p906_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सिद्ध&oldid=505602" इत्यस्माद् प्रतिप्राप्तम्