सामग्री पर जाएँ

सिद्धमन्त्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सिद्धमन्त्रः, पुं, (सिद्धो मन्त्रः ।) सिद्धप्राप्तमन्त्रः । यथा, ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ७८ । २१ ; २७ -- २८ । “द्धात्रिंशद्विधं सिद्धं सर्व्वसाधनकारणम् । मन्मुखात् श्रूयतां नन्द सिद्धमन्त्रं गृहाण च ॥” “ओम् सर्व्वेश्वराय सर्व्वविघ्नविनाशिने मधुसूद- नाय स्वाहेत्येवं मन्त्रश्च सर्व्वेषां कल्पपादपः । सामवेदे च कथितः सिद्धानां सर्व्वसिद्धिदः ॥ अनेन योगिनः सिद्धा मुनिन्द्राश्च सुरास्तथा । शतलक्षजपेनैव मन्त्रसिद्धिर्भवेत् सताम् ॥”

"https://sa.wiktionary.org/w/index.php?title=सिद्धमन्त्रः&oldid=176532" इत्यस्माद् प्रतिप्राप्तम्