सिद्धान्तः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिद्धान्तः, पुं, (सिद्धः अन्तो यस्मात् ।) पूर्व्व- पक्षं निरस्य सिद्धपक्षस्थापनम् । इति भरतः ॥ (यथा, महाभारते । १ । ७० । ४३ । “स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः ॥”) तत्पर्य्यायः । राद्धान्तः २ । इत्यमरः । १ । ५ । ४ ॥ नवविधज्योतिर्ग्रन्याः । यथा । ब्रह्मसिद्धान्तः १ सूर्य्यसिद्धान्तः २ सोमसिद्धान्तः ३ बृहस्पति- सिद्धान्तः ४ गर्गसिद्धान्तः ५ नारदसिद्धान्तः ६ परागरसिद्धान्तः ७ पुलस्त्यसिद्धान्तः ८ वशिष्ठ- सिद्धान्तश्च ९ ॥ तन्त्राधिकरणाभ्यु पगमसंस्थितिः सिद्धान्तः । स च चतुर्विधः । सर्व्वतन्त्रप्रति- तन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् सर्व्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्व्वतन्त्र- सिद्धान्तः ॥ १ ॥ समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥ २ ॥ यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः ॥ ३ ॥ अपरीक्षिताभ्यु प- गमात् तद्विशेषपरीक्षणमभ्यु पगमसिद्धान्तः ॥ ४ ॥ इति गोतमसूत्रम् ॥ (तथास्य विवृतिर्यथा, -- “अथ सिद्धान्तः । सिद्धान्तो नाम यः परीक्षकै- र्बहुविधं परीक्ष्य हेतुभिः साधयित्वा स्थाप्यते निर्णयः स सिद्धान्तः । स चोक्तश्चतुर्विधः । सर्व्व- तन्त्रसिद्धान्तः, प्रतितन्त्रसिद्धान्तः, अधिकरण- सिद्धान्तः, अभ्युपगमसिद्धान्त इति । तत्र सर्व्वतन्त्रसिद्धान्तो नाम सन्ति निदानानि, सन्ति व्याधयः, सन्ति सिद्ध्युपायाः साध्यानामिति प्रतितन्त्रसिद्धान्तो नाम तस्मिंस्तस्मिंस्तन्त्रे तत्तत् प्रसिद्धं यथान्यत्राष्टौ रसाः षडन्यत्र । पञ्चेन्द्रि- याणि यथान्यत्र षडिन्द्रियाणि । वाताधिकृताः सर्व्वविकारा यथान्यत्र वातादिकृता भूतकृताश्च प्रसिद्धाः । अधिकरणसिद्धान्तो नाम यस्मिन्नधिकरणे संस्तूयमाने सिद्धान्यन्यान्यपि अधिकरणानि भवन्ति । न मुक्तः कर्म्मानुबन्धिकं कुरुते निस्पृ- हत्वादिति प्रस्तुते सिद्धाः कर्म्मफलमोक्षपुरुष- प्रेत्यभावा भवन्ति । अभ्युपगमसिद्धान्तः । अभ्युपगमसिद्धान्तो नाम यमर्थमसिद्धमपरीक्षितमनुपदिष्टमहेतुकं वा वादकालेऽभ्यु पगच्छन्ति भिषजः । तद्यथा द्रव्यं न प्रधानमिति कृत्वा वक्ष्यामः । गुणाः प्रधाना इति कृत्वा वक्ष्यामः । इत्येवमादिश्चतुर्व्विधः सिद्धान्तः ।” इति चरके विमानस्थाने ८ अध्यायः ॥)
