सिद्धार्थः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिद्धार्थः, पुं, (सिद्धोऽर्थो यस्य ।) वृत्तार्हत्पिता । इति हेमचन्द्रः ॥ शाक्यसिंहः । इति मेदिनी ॥ (सिद्धोऽर्थो यस्मात् ।) श्वेतसर्षपः । इत्यमरः । २ । ९ । १८ ॥ (यथा, भागवते । ४ । ९ । ५८ । “ध्रुवाय पथि दृष्टाय तुत्र तत्र पुरस्त्रियः । सिद्धार्थाक्षतदध्यम्बुपूर्व्वापुष्पफलानि च । उपजह्रुः प्रयुञ्जाना व्यात्सल्यादाशिषः सतीः ॥”) अस्य पर्य्यायगुणाः गौरसर्षपशब्दे द्रष्टव्याः ॥ वटीवृक्षः । इति राजनिर्घण्टः ॥ प्रसिद्धार्थः । यथा, -- “सिद्धार्थं सिद्धसम्बन्धं श्रेतुं श्रोता प्रवर्त्तते । ग्रन्थादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥” इति व्याकरणटीका ॥
