सिद्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धिः, स्त्री, (सिध + क्तिन् ।) दुर्गा । यथा, -- साधनात् सिद्धिरित्युक्ता साधका वाथ ईश्वरी ॥” इति देवीपुराणे ४५ अध्यायः ॥ ऋद्धिनामौषधम् । इत्यमरः । २ । ४ । ११२ ॥ योगविशेषः । निष्पत्तिः । यथा, मनुः । २ । ९७ । “वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च । न विप्रदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित् ॥”) पादुका । अन्तर्द्धिः । वृद्धिः । इति मेदिनी ॥ मोक्षः । इति हेमचन्द्रः ॥ (यथा, मनुः । १२ । ११ । “कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति ॥”) सम्पत्तिः । इति धरणिः ॥ बुद्धिः । इति शब्द- रत्नावली ॥ * ॥ अष्टसिद्धिनामलक्षणानि यथा, “अणिमा महिमा चैव लघिमा प्राप्तिरेव च । प्राकाम्यञ्च तथेशित्वं वशित्वञ्च तथापरम् ॥ यत्र कामावसायित्वं गुणानेतानथैश्वरान् । प्राप्नोत्यष्टौ नरव्याघ्र परनिर्व्वाणसूचकान् ॥ सूक्ष्मात् सूक्ष्मतरोऽणीयान् शीघ्रत्वाल्लघिमा गुणः । महिंमाशेषपूज्यत्वात् प्राप्तिर्नाप्राप्यमस्य यत् ॥ प्राकाम्यमस्य व्यापित्वात् ईशित्वं चेश्वरो यतः । वशित्वात् वशिता नाम योगिणः सप्तमो गुणः ॥ यत्रेच्छास्थानमप्युक्तं यत्र कामावसायिता । ऐश्वर्य्यं कारणैरेभिर्योगिनः प्रोक्तमष्टधा ॥” इति मार्कण्डेये दत्तात्रेयालकसंवादे योगवल्लभ- नामाध्यायः ॥ * ॥ (अष्टादशसिद्धिनामानि यथा, ब्रह्मवैवर्त्ते । १ । ६ । १८ -- १९ । “अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वञ्च वशित्वञ्च सर्व्वकामावसायिता ॥ सर्व्वज्ञदूरश्रवणं परकायप्रवेशनम् । वाक्सिद्धिः कल्पवृक्षत्वं स्रष्टुंसंहर्त्तुमीशता । अमरत्वञ्च सर्व्वाङ्गं सिद्धयोऽष्टादश स्मृताः ॥”) भावनासिद्धिर्यथा, -- “तीर्थे कान्तेऽभीष्टदेवे गुरौ मन्त्रे भवौषधे । आस्था च यादृशी यासां सिद्धिस्तासाञ्च तादृशी ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३९ अध्यायः ॥ ज्ञानात् सिद्धिर्यथा, -- “तस्मात् त्वमपि भूपाल देहि न्यायार्ज्जितं धनम् । दानात् ज्ञानं ततः प्राप्य ज्ञानात् सिद्धिमवा- प्स्यसि ॥” इति वह्निपुराणे शिवेरुपाख्याननामाध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धि स्त्री।

ऋद्ध्याख्यौषधिः

समानार्थक:योग्य,ऋद्धि,सिद्धि,लक्ष्मी

2।4।112।2।3

गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा। योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धि¦ स्त्री सिध--क्तिन्।

१ ऋद्धिनामौषधे अमरः।

२ योगभेदे

३ अन्तर्द्धाने

४ निष्पत्तौ

५ पाके

६ पादुकायाम्

७ वृद्धौ मेदि॰

८ मोक्षे हेमच॰

९ सम्पत्तौ धरणिः

१० अणिमाद्यष्टविधै-श्वर्य्ये

११ बुद्धौ शब्दच॰

१२ साध्यवत्तया निश्चये च।

१३ सांख्योक्ते ऊहादिके सिद्धिहेतुभेदे
“ऊहादिभिः सिद्धिः” सां॰ सू॰।
“ऊहादिभैदैः सिद्धिरष्टधा-भवतीत्यर्थः। इदमपि सूत्रं कारिकया व्याख्यातम्।
“ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः। दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः” इति।
“अस्वा अयमर्थः। अत्राध्यात्मिकादिदुःखत्रयप्र-तियोमिकत्वात् त्रयो दुःखविघातामुख्यसिद्धयः। इतरास्तुतत्साधनत्वाद्गौण्यः सिद्धयः। तत्रोही यथा उप-देशादिकं विनैव प्राग्भवीयाभ्यासभ्यासवशात् तत्त्वस्यस्वयमूहनमिति। शब्दस्तु यथा अन्यदीयपाठमाकर्ण्यस्वयं वा शास्त्रमाकलय्य यज्ज्ञानं जायते तदिति। अध्ययनं यथा शिष्याचार्य्यभावेन शास्त्राध्ययनाज्ज्ञान-मिति। सुहृत्प्राप्तिर्यथा। स्वयमुपदेशार्थं गृहागतात्परमकारुणिकाज्ज्ञानलाभ इति। दानं यथा धना-दिदानेन परितोषिताज्ज्ञानलाभ इति। एषु च पूर्व-स्त्रिविध ऊहशब्दाध्ययनरूपो मुख्यसिद्धेरङ्कुश आक-र्षकः। सुहृतप्राप्तिदानयोरूहादित्रयापेक्षया मन्दसा-धनत्वप्रतिपादनायेदमुक्तम्। कश्चित्त्वेतासामष्टसिद्धी-नामङ्कुशो निवारकः पूर्वस्त्रिविधो विपर्य्ययाशक्ति-तृष्टिरूपो भवति बन्धकत्वादिति व्याचष्टे तन्न। तुष्ट्य-भावस्याशक्तितया बाधिर्य्यादिवत् सिद्धिविरोधितालाभेनतुष्ट्यतुष्ट्योः सिद्धिविरोधित्वासम्भवात्। ननूहादिभिरेवकथं सिद्धिरुच्यते मन्त्रतपःसमाध्यादिभिरप्यणिमाद्यष्ट-सिद्धेः सर्वशास्त्रसिद्धत्वादिति तत्राह” भा॰।
“नेतरा-[Page5296-b+ 38] दितरहानेन विना” सू॰।
“इतरादूहनादिपञ्चकभिन्नात्। तप आदेस्तात्त्विकी न सिद्धिः कुत इतरहानेन वि नायतः सा सिद्धिरितरस्य विपर्ययस्य हानं विनैव भवत्यतःसंसारापरिपन्थित्वात् सा सिद्व्याभास एव न तु ता-त्त्विकी सिद्धिरित्यर्थः। तथा चोक्तं योगसूत्रेण।
“तेसमाघावुपसर्गाव्युत्थाने सिद्धयः” इति प्र॰ भाष्यम्। पात॰ सू॰ भाष्ययोश्च एकत्र विषयविशेषे धारणाध्यान-समाधित्रयरूपसंयमविशेषात् कतिचित् सिद्धयो दर्शिताःयथा
“परिणामत्रयसयमादतीतानागतज्ञानम्” सू॰।
“धर्मलक्षणावस्थापरिणामेषु सयमात् योगिनां भवत्यतो-तानागतज्ञानं धारणाध्यानसनाधित्रयमेकत्र संयम उक्त-स्तेन परिणामत्रयं साक्षात्क्रियमाणमतीतानागतज्ञानंस्{??}दयति” भा॰।
“शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम्” सू॰।
“स-स्कारसाक्षात्करणात् पूर्वजातिज्ञानम्” सू॰।
“प्रत्ययस्यपरचित्तज्ञानम्” सू॰।
“कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भेचक्षुःप्रकाशासंप्रयोगेऽन्तर्द्धानम्” सू॰।
“सोपक्रमं निरुपक्रमञ्चकर्म ततसंयमादपरान्तज्ञानमरिष्टेभ्यो वा” सू॰।
“मैत्र्यादिषुबलानि” सू॰।
“बलेषु हस्तिबलादीनि” सू॰।
“प्रवृत्त्यालोक-न्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्” सू॰।
“भुवनज्ञानंसूर्य्ये संयमात्” सू॰।
“चन्द्रे ताराव्यूहज्ञानम्” सू॰।
“ध्रुवेतद्गतिज्ञानम्” सू॰।
“नाभिचक्रे कायव्यूहज्ञानम्” सू॰।
“कण्ठकूपे क्षुत्पिपासानिवृत्तिः” सू॰।
“कूर्मनाड्यां स्थैर्य्यम्” सू॰।
“मूर्द्धज्योतिषि सिद्धदर्शनम्” सू॰।
“प्रातिभाद्वासर्वम्” सू॰।
“हृदये चित्तसंवित्” सू॰।
“सत्वपुरु-षयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषोभोगः परार्थत्वात्स्वार्थसंयमात् पुरुषज्ञानम्” सू॰।
“ततः प्रातिभश्रा-वणवेदनादर्शास्वादवार्त्ता जायन्ते” सू॰।
“ते समाधावुप-सर्गाव्युत्थाने सिद्धयः” सू॰।
“बन्धकारणशैथिल्यात् प्रचा-रसंवेदनाच्च चित्तस्य परशरीरावेशः” सू॰।
“उदानजया-ज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च” सू॰।
“समानजया-ज्ज्वलनम्” सू॰।
“श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रो-त्रम्” सू॰।
“कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्ते-श्चाकाशगमनम्” सू॰।
“वहिरकल्पिता वृत्तिर्महाबिदेहा ततःप्रकाशावरणक्षयः” सू॰।
“स्थूलस्वरूपसूक्ष्मान्वयाथवत्त्व-संयमाद्भूतजयः” सू॰।
“ततोऽणिमादिप्रादुर्भावः काय-सम्पत्तद्धर्माऽनभिघातश्च” सू॰।
“रूपलावण्य बलवजमह-ननत्वानि कायसम्पत्” सू॰।
“ग्रहण{??}-[Page5297-a+ 38] यार्थवत्त्वसंयमादिन्द्रियजयः” सू॰।
“ततो मनोजयित्वंविकरणंभावः प्रधानजयश्च” सू॰।
“परिणामत्रयसयमादतीतानागतज्ञानम्” इत्यादिकैः
“ततः प्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते” इत्य-न्तसूत्रैरुक्तानां सिद्धीनां समाधावुपसर्गत्वं व्युत्त्थानेसिद्धित्वमाह
“ते समाधावुपसर्गावत्थाने सिद्धयः” सू॰। तेप्रातिभादयः समाहितचित्तस्योत्पद्यमानाः उपसर्गास्तत्त्व-दर्शनप्रत्यनीकत्वात्। व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः” भा॰। एवमग्रे वक्ष्यमाणाः ततोऽणिमादिप्रादुर्भाव इत्या-दयोऽपि सिद्धयो व्युत्थानदशायामेव समाधौ तूपसर्गाएव हेतोरविशेषात्। एवमन्या अपि सिद्धयः कैवल्य-पादे दर्शिता यथा
“जन्मौषधिमन्त्रतपःसमाधिजाःसिद्धयः” सू॰।
“देहान्तरिता जन्मना सिद्धिः ओषधि-भिरसुरभवने रसायनेनेत्येवमादि। मन्त्रैराकाशगम-नाणिमादिलाभः तपसा सङ्कल्पसिद्धिः कामरूपी यत्र तत्रकामग इत्येवमादि समाधिजाः सिद्धयोः व्याख्याताः” भा॰तासाञ्च यथाऽन्यथापरिणामहेतुत्वं तथा परसूत्रैस्तत्रसमर्थितम्”। तन्त्रोक्तमन्त्रसिद्धिलक्षणं च तन्त्रसा॰ उक्तं यथा
“मनोरथानामक्लेशः सिद्धिरुत्तमलक्षणा। मृत्योश्च हरणंतद्वत् देवतादर्शनं तथा। प्रयोगेऽक्लेशतः सिद्धिः सि-{??}स्तु लक्षण परम्। परकायप्रवेशश्च पुरप्रवेशनं तथा। ऊर्द्ध्वोत्क्रमण एवं हि चराचरपुरे गतिः। खेचरी-मेलन चैव तत्कथाश्रवणादिकम्। भूच्छिद्राणि प्रपश्येत्तु तद्वदुत्तमलक्षणम्। ख्यातिर्वाहनभूषादिलाभःसुचिरजीवनम्। भूपानां तद्गणानाञ्च वशीकरणमुत्त-मम्। सर्वत्र सर्वलोकेषु चमत्कारकरी सुधीः। रोगोप-हरणं दृष्ट्या विषापहरणं तथा। पाण्डित्यं लभतेयन्त्री चतुर्विधमयत्नतः। बैराग्यञ्च मुमुक्षुत्वं त्यागितांसर्ववश्यताम्। अष्टाङ्गयोगाभ्यसनं भोगेच्छापरिवर्जनम्। सर्वभूतेष्वनुकम्पा सार्वज्ञ्यादिगुणोदयः। इत्यादिगुणसम्पत्तिर्मध्यसिद्धेस्तु लक्षणम्। महैश्वर्य्यं धनित्वंच पुत्रदारादिसम्पदः। अधमाः सिद्धयः प्रोक्ता मन्त्रि-णामाद्यभूमिका। सिद्धमन्त्रस्तु यः साक्षात् स शिवोनात्र संशयः। ( आध्यवत्तानिश्चयरूपसिद्धिस्तु असत्यामनुनितीच्छायांकामिनीजिज्ञामाटिवत् अनुमितेः पृथक् प्रतिबन्धिकाअनुमित्सा तु तत्रोत्तेजिका।
“सिषाधयिषया शून्या[Page5297-b+ 38] सिद्धिर्यत्र न विद्यते। स पक्षस्तत्र वृत्तित्वज्ञानादनुमिति-र्भवेत्” भाषा॰। सिद्धिश्च पक्षतावच्छेदकसामान्यावगा-हिनी पक्षतावच्छेदकावच्छिन्नयत्किञ्चिद्धर्मावगाहिनी चतत्रावच्छेदाच्छेदेनानुमितिं प्रति अववच्छेदावच्छेदेनसिद्धिर्विरोधिनी न सामानाधिकरण्येन सिद्धिः। समा-नाधिकरण्येनानुमितिं प्रति तु सिद्धिमात्रं विरोधीतिविवेकः। संशयपक्षतावादिमते पक्षताविघटकत्वेन सिद्धे-र्विरोधितेति विशेषः।

१४ दक्षकन्याभेदे वह्निपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धि¦ f. (-द्धिः)
1. Fulfilment, accomplishment, the entire completion of any undertaking or attainment of any object.
2. A Yo4ga, either the sixteenth of the astronomical periods termed Yo4gas, or the nineteenth of the twenty-eight astrological Yo4gas.
3. Final emancipation from existence, supreme felicity.
4. Pros- perity, success.
5. Knowledge, understanding.
6. Accuracy, cor- rectness, indisputable conclusion or position.
7. Validity, (in law.)
8. Acquittance, discharge, (of a debt.)
9. Concealment, secreting, covering.
10. The result or fruit of the adoration [Page787-b+ 60] of the gods or of ascetic severities.
11. The supposed acquirement of supernatural powers by the completion of magical, mystical, or alchemical rites and processes.
12. A wooden shoe or slipper, especially one over which some mystical formulæ have been repeated, and which will then, it is supposed, convey the wearer every where safely and rapidly.
13. A medicinal root; also Rid'dhi.
14. Settlement, establishment.
15. Certainty, truth.
16. Decision, (of a law suit.)
17. The solution of a problem.
18. Pre- paration, cooking.
19. Readiness.
20. Complete sanctification.
21. Beatitude.
22. Marvellous skill or capability.
23. Making oneself invisible. E. षिध् to accomplish, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धिः [siddhiḥ], f. [सिध्-क्तिन्]

Accomplishment, fulfilment, completion, perfection, complete attainment (of an object); विरोधि सिद्धेरिति कर्तुमुद्यतः Ki.14.8; क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे Subhāṣ.

Success, prosperity, welfare, well-being.

Establishment, settlement.

Substantiation, demonstration, proof, indisputable conclusion.

Validity (of a rule, law &c.).

Decision; adjudication, settlement (of a law-suit); कार्यकारण- सिद्धौ च प्रसन्ना बुद्धिरव्यया Rām.4.18.47; तस्मान्न लेखसामर्थ्यात् सिद्धिरैकान्तिकी मता Śukra. 4.726.

Certainty, truth, accuracy, correctness.

Payment, liquidation (of a debt); अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः Ms.8.47.

Preparing, cooking (as of drugs &c.).

The solution of a problem.

Readiness.

Complete purity or sanctification.

A superhuman power of faculty; (these faculties are eight: अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वं च तथा कामावसायिता ॥).

The acquisition of supernatural powers by magical means.

Marvellous skill or capability.

Good effect or result.

Final beatitude, final emancipation.

Understanding, intellect.

Concealment, vanishing, making oneself invisible.

A magical shoe (supposed to convey the wearer wherever he likes).

A kind of Yoga.

N. of Durgā.

Complete knowledge.

Advantage, use, good effect.

N. of Śiva (m. in this sense).

Efficacy, efficiency.

Becoming intelligible (as sounds or words).

(In Rhet.) The pointing out in the same person of various good qualities. -Comp. -द a.

granting success or supreme felicity.

giving the eight superhuman faculties; हृदि विनिहितरूपः सिद्धिदस्तद्विदां यः Māl.5.1. (-दः) an epithet of Śiva. -दात्री an epithet of Durgā.-योगः a particular suspicious conjunction of planets.-विनायकः a form of Gaṇeśa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धि f. driving off , putting aside Ya1jn5.

सिद्धि f. (for 1. See. p. 1215 , col. 1) accomplishment , performance , fulfilment , complete attainment (of any object) , success MBh. Ka1v. etc.

सिद्धि f. the hitting of a mark( loc. ) Ka1m.

सिद्धि f. healing (of a disease) , cure by( comp. ) Ya1jn5.

सिद्धि f. coming into force , validity ib.

सिद्धि f. settlement , payment , liquidation (of a debt) Mn. viii , 47

सिद्धि f. establishment , substantiation , settlement , demonstration , proof. indisputable conclusion , result , issue RPra1t. Up. Sarvad.

सिद्धि f. decision , adjudication , determination (of a lawsuit) W.

सिद्धि f. solution of a problem ib.

सिद्धि f. preparation , cooking , maturing , maturity ib.

सिद्धि f. readiness W.

सिद्धि f. prosperity , personal success , fortune , good luck , advantage Mn. MBh. etc.

सिद्धि f. supreme felicity , bliss , beatitude , complete sanctification (by penance etc. ) , final emancipation , perfection L.

सिद्धि f. vanishing , making one's self invisible W.

सिद्धि f. a magical shoe (supposed to convey the wearer wherever he likes) ib.

सिद्धि f. the acquisition of supernatural powers by magical means or the -supsupposed faculty so acquired (the eight usually enumerated are given in the following श्लोक, अणिमालघिमा प्रा-प्तिः प्राकाम्यम् महिमा तथा ईशित्वं च वशित्वं च तथा कामा-वसायिताPage1216,3 ; sometimes 26 are added e.g. दूर-श्रवण, सर्वज्ञ-त्व, अग्नि-स्तम्भetc. ) Sa1m2khyak. Tattvas. Sarvad.

सिद्धि f. any unusual skill or faculty or capability (often in comp. ) Pan5cat. Katha1s.

सिद्धि f. skill in general , dexterity , art Car.

सिद्धि f. efficacy , efficiency Ka1v. Pan5cat.

सिद्धि f. understanding , intellect W.

सिद्धि f. becoming clear or intelligible (as sounds or words) BhP.

सिद्धि f. (in rhet. )the pointing out in the same person of various good qualities (not usually united) Sa1h.

सिद्धि f. (prob.) a work of art Ra1jat. iii , 381

सिद्धि f. a kind of medicinal root(= ऋद्धिor वृद्धि) L.

सिद्धि f. (in music) a partic. श्रुतिSam2gi1t.

सिद्धि f. a partic. योग(either the 16th or 19th) Col.

सिद्धि f. Success or Perfection personified MBh. VarBr2S.

सिद्धि f. N. of दुर्गाKatha1s.

सिद्धि f. of a daughter of दक्षand wife of धर्मPur.

सिद्धि f. of the wife of भगand mother of महिमन्BhP.

सिद्धि f. of a friend of दनुKatha1s.

सिद्धि f. of one of the wives of गणे-शRTL. 215 , 2

सिद्धि f. N. of शिव(in this sense m.) MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--wife of Bhaga. भा. VI. १८. 2.
(II)--a daughter of दक्ष; married Dharma; mother of Sukha. Br. I. 9. ५०, ६१, ६२; वा. १०. २५, ३७; Vi. I. 7. २३ and ३१. [page३-599+ २९]
(III)--the wife of काम. Br. II. 9. ६२.
(IV)--a देवी in the चक्रराजरथ. Br. IV. १९. 4.
(V)--a कला of ब्रह्मा. Br. IV. ३५. ९४.
(VI)--a mind-born mother. M. १७९. १८.
(VII)--of yoga; when one feels himself and the earth all of tejas becomes a siddha; फलकम्:F1:  वा. ११. ६४.फलकम्:/F the state of attaining the desired thing by means of vaivastya from the शरीरिमहत्; फलकम्:F2:  Ib. ५९. ७५.फलकम्:/F characteristics of: प्रतिभा, श्रवण, दर्शन् of devas and ब्रह्मावर्त; फलकम्:F3:  Ib. १२. 6 and 9.फलकम्:/F eight fold. फलकम्:F4:  Vi. I. 6. १६.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SIDDHI I : A daughter of Dakṣa. Thirteen daughters including Siddhi were married by Dharmadeva. (Viṣṇu Purāṇa, Aṁśa 1, Chapter 7).


_______________________________
*5th word in right half of page 716 (+offset) in original book.

SIDDHI II : A goddess. Kuntī the mother of the Pāṇḍavas was the human rebirth of this goddess. (M.B. Ādi Parva, Chapter 67, Verse 120). This goddess Siddhi had walked in front of the army of Subrahmaṇya, in the great battle between the Devas and the asuras. To attain the object in any matter, the blessing of this goddess is essential. (M.B. Śalya Parva, Chapter 46, Verse 64).


_______________________________
*6th word in right half of page 716 (+offset) in original book.

SIDDHI III : The son of an Agni (fire) named Vīra. Siddhi was born to this Vīrāgni, by his wife Sarayū. The story stating how this agni once screened the sun by his radiance, occurs in Mahābhārata, Śalya Parva, Chapter 218.


_______________________________
*7th word in right half of page 716 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सिद्धि&oldid=505607" इत्यस्माद् प्रतिप्राप्तम्