सिद्धिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिद्धिः, स्त्री, (सिध + क्तिन् ।) दुर्गा । यथा, -- साधनात् सिद्धिरित्युक्ता साधका वाथ ईश्वरी ॥” इति देवीपुराणे ४५ अध्यायः ॥ ऋद्धिनामौषधम् । इत्यमरः । २ । ४ । ११२ ॥ योगविशेषः । निष्पत्तिः । यथा, मनुः । २ । ९७ । “वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च । न विप्रदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित् ॥”) पादुका । अन्तर्द्धिः । वृद्धिः । इति मेदिनी ॥ मोक्षः । इति हेमचन्द्रः ॥ (यथा, मनुः । १२ । ११ । “कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति ॥”) सम्पत्तिः । इति धरणिः ॥ बुद्धिः । इति शब्द- रत्नावली ॥ * ॥ अष्टसिद्धिनामलक्षणानि यथा, “अणिमा महिमा चैव लघिमा प्राप्तिरेव च । प्राकाम्यञ्च तथेशित्वं वशित्वञ्च तथापरम् ॥ यत्र कामावसायित्वं गुणानेतानथैश्वरान् । प्राप्नोत्यष्टौ नरव्याघ्र परनिर्व्वाणसूचकान् ॥ सूक्ष्मात् सूक्ष्मतरोऽणीयान् शीघ्रत्वाल्लघिमा गुणः । महिंमाशेषपूज्यत्वात् प्राप्तिर्नाप्राप्यमस्य यत् ॥ प्राकाम्यमस्य व्यापित्वात् ईशित्वं चेश्वरो यतः । वशित्वात् वशिता नाम योगिणः सप्तमो गुणः ॥ यत्रेच्छास्थानमप्युक्तं यत्र कामावसायिता । ऐश्वर्य्यं कारणैरेभिर्योगिनः प्रोक्तमष्टधा ॥” इति मार्कण्डेये दत्तात्रेयालकसंवादे योगवल्लभ- नामाध्यायः ॥ * ॥ (अष्टादशसिद्धिनामानि यथा, ब्रह्मवैवर्त्ते । १ । ६ । १८ -- १९ । “अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वञ्च वशित्वञ्च सर्व्वकामावसायिता ॥ सर्व्वज्ञदूरश्रवणं परकायप्रवेशनम् । वाक्सिद्धिः कल्पवृक्षत्वं स्रष्टुंसंहर्त्तुमीशता । अमरत्वञ्च सर्व्वाङ्गं सिद्धयोऽष्टादश स्मृताः ॥”) भावनासिद्धिर्यथा, -- “तीर्थे कान्तेऽभीष्टदेवे गुरौ मन्त्रे भवौषधे । आस्था च यादृशी यासां सिद्धिस्तासाञ्च तादृशी ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३९ अध्यायः ॥ ज्ञानात् सिद्धिर्यथा, -- “तस्मात् त्वमपि भूपाल देहि न्यायार्ज्जितं धनम् । दानात् ज्ञानं ततः प्राप्य ज्ञानात् सिद्धिमवा- प्स्यसि ॥” इति वह्निपुराणे शिवेरुपाख्याननामाध्यायः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिद्धिः [siddhiḥ], f. [सिध्-क्तिन्]
Accomplishment, fulfilment, completion, perfection, complete attainment (of an object); विरोधि सिद्धेरिति कर्तुमुद्यतः Ki.14.8; क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे Subhāṣ.
Success, prosperity, welfare, well-being.
Establishment, settlement.
Substantiation, demonstration, proof, indisputable conclusion.
Validity (of a rule, law &c.).
Decision; adjudication, settlement (of a law-suit); कार्यकारण- सिद्धौ च प्रसन्ना बुद्धिरव्यया Rām.4.18.47; तस्मान्न लेखसामर्थ्यात् सिद्धिरैकान्तिकी मता Śukra. 4.726.
Certainty, truth, accuracy, correctness.
Payment, liquidation (of a debt); अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः Ms.8.47.
Preparing, cooking (as of drugs &c.).
The solution of a problem.
Readiness.
Complete purity or sanctification.
A superhuman power of faculty; (these faculties are eight: अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वं च तथा कामावसायिता ॥).
The acquisition of supernatural powers by magical means.
Marvellous skill or capability.
Good effect or result.
Final beatitude, final emancipation.
Understanding, intellect.
Concealment, vanishing, making oneself invisible.
A magical shoe (supposed to convey the wearer wherever he likes).
A kind of Yoga.
N. of Durgā.
Complete knowledge.
Advantage, use, good effect.
N. of Śiva (m. in this sense).
Efficacy, efficiency.
Becoming intelligible (as sounds or words).
(In Rhet.) The pointing out in the same person of various good qualities. -Comp. -द a.
granting success or supreme felicity.
giving the eight superhuman faculties; हृदि विनिहितरूपः सिद्धिदस्तद्विदां यः Māl.5.1. (-दः) an epithet of Śiva. -दात्री an epithet of Durgā.-योगः a particular suspicious conjunction of planets.-विनायकः a form of Gaṇeśa.
