सामग्री पर जाएँ

सिद्धिस्थानम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सिद्धिस्थानम्, क्ली, (सिद्धेः स्थानम् ।) पुण्यस्थान- विशेषः । यथा, -- “अतः परं प्रवक्ष्यामि सिद्धिस्थानानि यानि तु यस्मिन्नाराधिता देवी क्षिप्रं भवति सिद्धिदा ॥ तुङ्गारं शतशृङ्गञ्च त्रिकूटं पर्व्वतं तथा । विन्ध्या गङ्गा सरिद्यत्र रेवातीरमथापि वा ॥ पयोष्णी असुराख्या तु अथवा मण्डलेश्वरे । शङ्करेश्वररामेशे अथवा अमरेश्वरे ॥ वेत्रवत्यास्तटे रम्ये हरिश्चन्द्रे तथा प्रिये । सरस्वतीतटे पुण्ये सुगन्धायतनेऽपि वा । स्थानेष्वेषु जपं कुर्य्यात् नन्दाहे कृतमानसः । भैरवं शूलभेदञ्च चण्डीशं त्रिपुरान्तकम् ॥ अष्टचक्रं चक्रोच्छासं कपालाक्षाग्रनामकम् । अजाविकं खरोष्ट्राख्यं स्थानान्येतानि वर्जयेत् ॥” इति देवीपुराणे कुण्डप्रवेशनामाध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=सिद्धिस्थानम्&oldid=176579" इत्यस्माद् प्रतिप्राप्तम्