सिद्धौघ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिद्धौघः, पुं, (सिद्धानामोघः ।) गुरुक्रमविशेषः । यथा, तन्त्रे । “अथ तारागुरून् वक्ष्ये दृष्टादृष्टफलप्रदान् । ऊर्द्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः ॥ दिव्यौघाः सिद्धिदा वत्स सिद्धौघान् शृणु यत्नतः । वशिष्ठः कूर्म्मनाथश्च मीननाथो महेश्वरः ॥ हरिनाथो मानवौघान् शृणु वक्ष्यामि तद्गु- रून् । तारावती भानुमती जयाविद्या महोदरी ॥ सुखानन्दः परानन्दः पारिजातः कुलेश्वरः । विरूपाख्यः फेरवी च कथितं तारिणीकुलम् । आनन्दनाथशब्दान्ता गुरवः सर्व्वसिद्धिदाः । स्त्रियोऽपि गुरुरूपाश्च अम्बान्ताः परि- कीर्त्तिताः ॥” इति तन्त्रसारः ॥ अन्यच्च । “ब्रह्मानन्दः पूर्णदेवश्चलचित्तश्चलाचलः । कुमारः क्रोधनश्चैव तथा च स्वरदीपनः ॥ माया मायावती चैव मानवीघान् शृणु प्रिये । वशिष्ठः कूर्म्मनाथश्च मीननाथो महेश्वरः । हरिनाथो मानवौघानथ वक्ष्यामि सद्गुरून् ॥” इति शक्तिरत्नाकरतन्त्रम् ॥ तथा । “नारदः काश्यपः शम्भुर्भार्गवः कुलकौशिकः । एते पञ्च महादेव सिद्धौघाः परिकीर्त्तिताः ॥” इति तन्त्रम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिद्धौघ¦ पु॰
६ त॰। तारादेव्याः पूजान्ते पूज्ये गुरुभेदे
“दि-व्यौघाः सिद्धिदा वत्स! सिद्धौघान् शृणु यत्नतः। वसिष्ठःकूर्मनाथश्च मीननाथो महेश्वरः। हरिनाथो, मान-वौघान् शृणु वक्ष्यामि तद्गुरून” तन्त्रमा॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिद्धौघ/ सिद्धौ m. N. of certain गुरुs (or teachers of mystical मन्त्रs) revered by the तान्त्रिकs (named नारद, काश्यप, शम्भु, भार्गव, कुल-कौशिक) Cat.