सामग्री पर जाएँ

सिध्मला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सिध्मला, स्त्री, (सिध्ममस्या अस्तीति । लच् + टाप् ।) मत्स्यविकृतिः । इति मेदिनी ॥ (औषधविशेषः । तद्यथा, -- “त्वगादिहीनाः संशुद्धाः प्रत्यग्राः शकुलादयः । श्लक्ष्णचूर्णीकृतं तेषां शीते पलशतत्रयम् ॥ शतेन कटुतैलेऽस्य व्योषरामठधान्यकैः । क्रिमिघ्नदीप्यकनिशाचबिकाग्रन्थिकार्द्रकैः ॥ जीरकद्वयवृश्चीरसुरसार्ज्जकसिग्रुकैः । दशमूलात्मगुप्ताभ्यां मार्कवैर्लवणैस्त्रिभिः ॥ चूर्णितैः पलिकैः सार्द्ध मारणालपरिप्लुतैः ॥ विन्यसेत् स्नेहपात्रे तु धान्यराशौ पुनर्न्यसेत् । सप्तरात्रात् समुद्धृत्य पानभक्षणभोजनैः । सिध्मलेयं प्रयोक्तव्या सामे वायौ विशेषतः ॥ भग्नरुग्नाश्चू तहताः कम्पिनः पीठसर्पिणः । गृध्रसीमग्निसादञ्च शूलगुल्मोदराणि च । वलीपलितखालित्यं हत्वास्युरमलोन्द्रियाः ॥” इति वैद्यकचक्रपाणिसंग्रहे आमवाताधिकारे)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सिध्मला f. a kind of leprosy Col.

सिध्मला f. dried or salt fish L.

"https://sa.wiktionary.org/w/index.php?title=सिध्मला&oldid=229853" इत्यस्माद् प्रतिप्राप्तम्