सामग्री पर जाएँ

सिन्दूरम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सिन्दूरम्, क्ली, (स्यन्दते इति स्यन्दू ङ क्षरणे + “स्यन्देः सम्प्रसारणञ्च ।” उणा० १ । ६९ । इति ऊरन् । सम्प्रसारणञ्च ।) रक्तवर्णचूर्ण- विशेषः । सि~दूर इति भाषा । तत्पर्य्यायः । नागसम्भवम् २ । इत्यमरः । २ । ९ । १०५ ॥ नागरेणुः ३ रक्तम् ४ सीमन्तकम् ५ नागजम् ६ नागगर्भम् ७ शोणम् ८ वीररजः ९ गणेश- भूषणम् १० सन्ध्यारागम् ११ शृङ्गारकम् १२ सौगाग्यम् १३ अरुणम् १४ मङ्गल्यम् १५ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । व्रणविरोपणत्वम् । कुष्ठास्रभ्रमकण्डूतिविसर्पशम- नत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । “सिन्दूरं रक्तरेणुञ्च नागगर्भञ्च सीसजम् । सीसोपधातुः सिन्दूरं गुणैस्तत् सीसवन्मतम् ॥ संयोगजप्रभावेण तस्याप्यन्ये गुणाः स्मृताः । सिन्दूरमुष्णं वीसर्पकुष्ठकण्डविषापहम् । भग्नसन्धानजननं व्रणशोधनरोहणम् ॥” * ॥ सिन्दूरस्य शोधनमाह । “दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदिता बुधैः ।” इति भावप्रकाशः ॥ * ॥ सिन्दूरदानमन्त्रो यथा, -- “सिन्दूरञ्च वंरं रम्यं भाले शोभाविवर्द्धनम् । पूरणं भूषणानाञ्च सिन्दूरं प्रतिगृह्मताम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २१ अध्यायः ॥ * ॥ तस्य धारणात् पत्युरायुर्व्वृद्धिर्भवति । यथा, -- “हरिद्रां कुङ्कु मञ्चैव सिन्दूरं कज्जलं तथा । कार्पासकञ्च ताम्बूलं माङ्गल्याभारणं शुभम् ॥ केशसंस्कारकवरीकरकर्णविभूषणम् । भर्त्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता ॥” इति काशीखण्डे ४ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=सिन्दूरम्&oldid=176606" इत्यस्माद् प्रतिप्राप्तम्