सामग्री पर जाएँ

सिन्धुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सिन्धुः, पुं, (स्यन्दते इति । स्यन्दू प्रस्रवणे + “स्यन्देः सम्प्रसारणं धश्च ।” उणा० १ । १२ । इतिः उः । धकारादेशः सम्प्रसारणञ्च ।) समुद्रः । इत्यमरः । १ । १० । १ ॥ यथा, भागवते । ३ । ११ । ३१ । तावत्त्रिभुवनं सद्यः कल्पान्तै धितसिन्धवः । प्लावयन्त्युत्कटाटोपचण्डवातेरितोर्म्मयः ॥”) वमथुः । देशविशेषः । (यथा, रघुः । १५ । ८७ । “युधाजितश्च सन्देशात् स देशं सिन्धुनामकम् । ददौ दत्तप्रभावाय भरताय भृतप्रजः ॥”) नदविशेषः । इति मेदिनी ॥ इन्दस् इति ख्यातः । (यथा, रघुः । ४ । ६७ । “विनीताध्वश्रमास्तस्य सिन्धु तीरविचेष्टनैः । दुधुवुर्वाजिनः स्कन्धान् लग्नकुङ्कुमकेशरान् ॥”) गजमदः । इति हेमचन्द्रः ॥ सिन्धु वारवृक्षः । इति शब्दचन्द्रिका ॥ श्वेतटङ्कणम् । इति राज- निर्घण्टः ॥ रागविशेषः । स च मालकौशराग- पुत्त्रः । यथा, -- “माधवः शोभनः सिन्धु र्म्मारुमेवाडुकुन्तलाः । कलिङ्गः सोमसंयुक्तः कौशिकस्य सुता इमे ॥” इति सङ्गीतसिन्धुः ॥

सिन्धुः, स्त्री, (स्यन्दते इति । स्यन्द + उः । सम्प्र- सारणम् । दस्य धश्च ।) नदी । इति मेदिनी ॥ (यथा, मुण्डकोपनिषदि । २ । १ । ९ । “अतः समुद्रा गिरयश्च सर्व्वे- ऽस्मात् स्यन्दन्ते सिन्धवः सर्व्वरूपाः । अतश्च सर्व्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥”) नदीविशेषः । तज्जलगुणाः । यथा, -- “शतद्रोर्विपाशायुजः सिन्धुनद्याः सुशीतं लघु स्वादु सर्व्वामयघ्नम् । जलं निर्म्मलं दीपनं पाचनञ्च प्रदत्ते बलं बुद्धिमेधायुषञ्च ॥” इति राजनिर्घण्टः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सिन्धुः [sindhuḥ], [स्यन्द्-द्-अद् संप्रसारणं दस्य धश्च Tv.; Uṇ.1.11]

The sea, ocean; तावत् त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः Bhāg. 3.11.3.

The Indus.

The country around the Indus.

N. of a river in Mālavā; वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः Me.29 (where Malli.'s remark सिन्धुर्नाम नदी तु कुत्रापि नास्ति is gratuitous); पारासिन्धुसंभेदमवगाह्य नगरी- मेव प्रविशावः Māl.4. 9/1 (see Dr. Bhāndārkar's note ad loc.).

The water ejected from an elephant's trunk.

The juice exuding from the temples of an elephant.

An elephant.

N. of Varuṇa.

White borax.

A kind of musical mode (राग). -pl. The inhabitants of the Sindhu country. -f.

A great river or river in general; पिबत्यसौ पाययते च सिन्धूः R.13.9; Me.48; Ś.5.21; Ku.3.6;5.85.

The river Sindhu. -Comp. -उत्थम्, -उपलम् rock-salt. -कन्या N. of Lakshmī -कफः cuttle-fish bone. -खेलः the country Sindha. -ज, -जन्मन्a.

aquatic.

river-born.

Sea-born, born in theSindha country. (-जः) the moon. (-जम्) rock-salt.-जा f. N. of Lakṣmī. -नन्दनः, -पुत्रः the moon. -नाथः the ocean. -पर्णी, -वेषणम् Gmelina Arborea (Mar. थोरशिवणी). -पिबः N. of Agastya. -पुष्पः a conch-shell.-मन्थजम् rock-salt. -राजः, -पतिः N. of Jayadratha; Ve.3. -लवणम् rock-salt. -वारः a horse of good breed (brought from Sindha or Persia). -शयनः N. of Viṣṇu.-सङ्गमः confluence of rivers; (also with the ocean).-सागरः the country between the mouths of the Indus and the sea. -सौवीराः N. of a people inhabiting the country round the Indus.

"https://sa.wiktionary.org/w/index.php?title=सिन्धुः&oldid=229966" इत्यस्माद् प्रतिप्राप्तम्