सिन्धुसङ्गमः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिन्धुसङ्गमः, पुं, (सिन्धूनां सङ्गमो यत्र ।) नदी- नदसमुद्राणां परस्परमेलकः । तत्पर्य्यायः । सम्भेदः २ । इत्यमरः । १ । १० । ३५ ॥ सिन्ध्वो- र्नद्योः सङ्गमो मेलकः सम्भेदः । सम्भिदन्ति मिलन्ति अस्मिन्निति सम्भेदः घञ् । सिन्धु- शब्देन नदी नदः समुद्रश्चोच्यते तेन नद्योर्नदयो- र्नदीसमुद्रयोश्च मेलकः सम्भेदः । इति वैकुण्ठा- दयः । इति भरतः ॥
