सिम्बी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिम्बी, स्त्री, (सिम्बि + पक्षे ङीष् ।) निष्पावी । इति राजनिर्घण्टः ॥ अपि च । “सिम्बा सिम्बी पुस्तसिम्बिस्तथा पुस्तकसिम्बिका शिम्बिद्वयञ्च मधुरं रसे पाके हिमं गुरु । बल्यं दाहकरं प्रोक्तं श्लेष्मलं वातपित्तजित् ॥” इति भावप्रकाशः ॥
