सामग्री पर जाएँ

सिह्लकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सिह्लकः, पुं, (सिह्ल एव । स्वार्थे कन् ।) सिह्लः । इति शब्दरत्नावली ॥ (शिलारसः । अस्य पर्य्यायो यथा, -- “कपिनामा कपितैलं कृत्रिमं कपिलश्चलः । तुरुस्को मुक्तिमुक्तश्च पिण्डातः सिह्लको रसः ॥” इति वैद्यकरत्नमालायाम् ॥ “सिह्लकस्तु तुरुष्कः स्याद्यतो यवनदेशजः । कपितैलञ्च सङ्ख्यातस्तथाच कपिनामकः ॥” अस्य गुणा यथा, -- “सिह्लकः कटुकः खादुः स्निग्धोष्णः शुक्र- कान्तिकृत् । वृष्यः कण्ठ्यः स्येदकुष्ठज्वरदाहग्रहापहः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=सिह्लकः&oldid=176931" इत्यस्माद् प्रतिप्राप्तम्