सीक
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सीक, ऋ ङ सेके । इति कविक्ल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) ऋ, असिसीकत् । ङ, सेकते । इति दुर्गादासः ॥
सीक, कि आमृशि । इति कविकल्पद्रुमः ॥ (चुरा०- पक्षे भ्वा०-पर०-सक०-सेट् ।) कि, सीकयति सीकति । आमृशि स्थर्शे । प्रमाणं तालव्यादौ दृश्यम् । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सीक¦ सेचने भ्वा॰ आ॰ सक॰ सेट्। सीकते असेकिष्ट। ऋदित् चङि न ह्रस्वः। पर्युदासेन न गोपदेशः।
सीक¦ स्पर्शे वा चु॰ उभ॰ पक्षे भ्वा॰ प॰ सक॰ सेट्। सीक-यति ते सीकति असीसिकत् त असीकीत्। पर्य्युदासान्नषोपदेशः।