सीधु
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सीधुः, पुं, (शोधुः । पृषोदरादित्वात् शस्य सः ।) मद्यम् । इति शब्दरत्नावली ॥ (यथा, देवी- भागवते । ५ । २४ । ६० । “अशोकं कुरुराजानं पादघातविकाशितम् । वकुलं सीधुसेकेन तथा कुरुवकं कुरु ॥”) मद्यभेदः । इत्यमरः । २ । १० । ४२ ॥ यथा, -- “इक्षोः पक्वै रसः सिद्धः सीधुः पक्वरसश्च सः । आमैस्तैरेव यः सोधुः स च शीतरसः स्मृतः ॥ सीधुः पक्वरसः श्रेष्ठः स्वराग्निबलवणकृत् । वातपित्तकरा हृद्यः स्नेहनो रोचनो हरेत् ॥ विबन्धभेदशोफार्शः शोफोदरकफामयान् । तस्मादल्पगुणः शीतरसः संलेखनः स्मृतः ॥” इति राजनिर्घण्टः ॥ (यथा च । “सीधुः कषायाम्लकमाधुरो वा सन्दीपनो भेदमलापहा च । आमातिसारानिलपित्तशूल- श्लेष्मामयार्शोग्रहणीगदघ्नः ॥” इति हारीते प्रथमे स्थाने ११ अध्यायः ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सीधु पुं।
इक्षुशाकादिजन्यमद्यम्
समानार्थक:मैरेय,आसव,सीधु
2।10।41।2।3
मध्वासवो माधवको मधु माध्वीकमद्वयोः। मैरेयमासवः सीधुर्मेन्दको जगलः समौ॥
पदार्थ-विभागः : खाद्यम्,पानीयम्
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सीधु¦ पु॰ सिध--उ पृषो॰।
१ मद्ये
२ मद्यभेदे च
“इक्षोः पक्वैरसैः स्निग्धः सीधुः पक्वरसश्च सः। आमैस्तैरेव यः सीधुः(सेरका) स च शीतरसः स्मृतः। सीधुः पक्वरसः श्रेष्ठःस्वराग्निबलवर्णकृत्। वातपित्तकरो हृद्यः स्नेहनोरोचनो हरेत्। विबन्धमेदशोफार्शःशाफोदरकफा-मयान्। तस्मादल्पगुणः शीतरसः संलेखनः स्मृतः” राजनि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सीधु¦ m. (-धुः) Spirit, distilled from molasses, rum. E. See शीधु, the sibilant being changed.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सीधु [sīdhu], m. [सिध्-उ पृषो˚] Spirit distilled from molasses, rum; स्फुरदधरसीधवे तव वदनचन्द्रमा रोचयति लोचनचकोरम् Gīt. 1; Śi.9.87; R.16.52; ताम्बूलरज्जन्मुखसीधुदानादारक्तबिम्बो$जनि युक्तमेतत् Rām. ch.6.15.
Comp. गन्धः the Bakula tree. -प a. drinking spirits; P.III.2.8. Vārt.1.-पानम् the drinking of spirits.
पुष्पः the Kadamba tree.
the Bakula tree. -रसः the mango tree. -संज्ञः the Bakula tree.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सीधु m. ( L. also f. and n. ; less correctly शीधु, of unknown derivation) spirituous liquor distilled from molasses , rum (or any similar spirit , also fig. = " nectar ") MBh. Ka1v. etc.