सीमन्तोन्नयनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सीमन्तोन्नयनम्, क्ली, (सीमन्तस्य उन्नयनं उत्तो- लनं यत्र ।) संस्कारविशेषः । इति जटाधरः ॥ तद्विधानञ्च यथा, -- अथ सीमन्तोन्नयनम् । “यदि पुंसवनं न कृतं तदा तस्मिन्नेव दिने प्रायश्चित्तात्मकमहाव्याहृतिहोमं कृत्वा पुंस- वनञ्च कृत्वा सीमन्तोन्नयनं कार्य्यम् । तथा च नारदः । ‘येषान्तु न कृताः पित्रा संस्कारविधयः क्रमात् । कर्त्तव्या भ्रातृभिस्तेषां पैतृकादेव तद्धनात् ॥ अविद्यमाने पित्रर्थे स्वांशादुद्धृत्य वा पुनः । अवश्यकार्य्याः संस्कारा भ्रातृभिः पूर्व्वसंस्कृतैः ॥ क्रमात् भ्रातॄणां संस्काराणाञ्च पौर्व्वापर्य्यक्रमात् भ्रातृक्रमस्तु सोदरविषय एव । विवाहे तथा दर्शनात् । छन्दोगपरिशिष्टम् । देवतानां विपर्य्यासे जुहोतिषु कथं भवेत् । सर्व्वं प्रायश्चित्तं कृत्वा क्रमेण जुहुयात् पुनः ॥ संस्कारा अतिपत्येरन् स्वकालाच्चेत् कथञ्चन । हुत्वैतदेव कुर्व्वीत ये तूपनयनादधः ॥’ एतदित्यनेन सर्व्वं प्रायश्चित्तमनुकृष्टं तच्च प्रागेव विवृतम् । उभयकरणे तन्त्रेणैव मातृका- पूजादि । ‘गणशः क्रियमाणे तु मातृभ्यः पूजनं सकृत् । सकृदेव भवेत् श्राद्धमादौ न पृथगादिषु ॥’ इति छन्दोगपरिशिष्टात् ॥ * ॥ गोभिलः । अथ सीमन्तोन्नयनं प्रथमे गर्भे चतुर्थे मासि षष्ठे ऽष्टमे वा । अथ पुंसवनानन्तरम् । सीमन्तः केशरचनाविशेषः । वाशब्देक्यान्न चतु- र्थादिमासानां तुल्यवद्विकल्पः । किन्तु पूर्व्वपूर्व्व- कालः प्रशस्तः । समर्थस्य क्षेपायोगात् इति न्यायात् ततश्च नवममासादौ प्रायश्चित्तं कृत्वैव कर्त्तव्यम् । प्रथमगर्भ इत्युपादानात् । यदि कथञ्चिदकृत एतस्मिन् संस्कारे गभनाशे पुन- र्गर्भोत्पत्तौ अयं कालनियमो न किन्तु गर्भस्पन्दने सीमन्तोन्नयणं यावन्न वालप्रसबः । इति शङ्ख- लिखितोक्तकालो ग्राह्यः । वृहद्राजमार्त्तण्डे । ‘या नार्य्यकृतसीमन्ता प्रसूते च कथञ्चन । अङ्के विधाय तं बालं पुनः संस्कारमर्हति ॥ * ॥ षष्ठे मासेऽष्टमेऽह्नीज्यकुजदिनकृतां नन्दभद्रे तिथौ चे मैत्रेमूले मृगाङ्के करपितृपवनेपौष्णविष्णुत्रियुग्म पुष्याश्वादित्यरौद्रे युवतिहरिझसे वृश्चिके वापि लग्ने । चन्द्रे तारानुकूले शुभमपि नियतं स्याच्च सीमन्तकर्म्म ॥ मृगाजरहिते लग्ने नवांशे पुंग्रहस्य च । केचिद्वदन्ति सीमन्तं तथा रिक्तेतरे तिथौ ॥ गोभिलः । प्रातः सशिरस्काप्लुतोदगग्रेषु दर्भेषु पश्चादग्नेः प्राच्युपविशति उक्तार्थमेतत् । पश्चात् पतिरवस्थाय युगमन्तमौडम्बरं शलाटुग्रथ्नमाव- ध्नाति अयमूर्ज्जावतो वृक्ष इति । अग्नेः पश्चात् पतिः स्थित्वा । युगानि फलानि यस्मिन् शला- टुग्रथ्ने नीलस्तवके स युगमान् तं मतुवन्तम् । तथा च भट्टनारायणधृतं छन्दोगपरिशिष्टम् । ‘शलाटु नीलमित्युक्तं ग्रथ्नस्तवक उच्यते । कपुष्णिकाभितः केशा मूर्द्ध्नि पश्चात् कपुच्छलः एतद्वचनं नारायणोपाध्यायेन धृतम् । उडु- म्बरभवमौडम्बरम् । अयमूर्ज्जावतो वृक्ष इति मन्त्रेण भार्य्यायाः कण्ठे बध्नाति ॥ * ॥ अथ सीमन्तमूर्द्धं नयति भूरिति दर्भपिञ्जलीभिरेव प्रथमं भुव इति द्वितीयं स्वरिति तृतीयम् । अथानन्तरं यत्र सिन्दूरं स्त्री ददाति तं सीमन्तं ललाटोर्द्ध्वं नयति भूरिति मन्त्रेण दर्भपिञ्जली- भिस्तिसृभिः । एकवारकरणाद्यावन्त्युन्नयनानि तावतीभिरेव तिसृभिरित्यर्थः । प्रथमादिपदानि तु व्याहृतीनां पिञ्जलीनाञ्च पृथङ्नियोगार्थम् पिञ्जली पवित्रम् । तथा च छन्दोगपरिशिष्टम् ‘अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् । एतदेव हि पिङ्गल्या लक्षणं समुदाहृतम् ॥’ गोभिलः । अथ वीरतरेण येनादितेरित्येतयर्च्चा बीरास्तरन्त्यनेन युद्धमिति वीरतरः शरः ॥ तथा च छन्दोगपरिशिष्टम् । ‘श्वाविच्छलाका शलली तथा वीरतरः शरः । तिलतण्डुलसम्पाकः कृषरः सोऽभिधीयते ॥’ ततश्च शरेण येनादितेरिति मन्त्रेण सीमन्तमूर्द्ध्वं नयति इति पूर्व्वसूत्रादनुवर्त्तते ॥ * ॥ अथ पूर्णेन सूत्रचात्रेण वाकामहमित्येतयर्च्चा । चात्रं तर्कुः । तेन सूत्रपूर्णेन वाकामहमिति मन्त्रेण सीमन्तमूर्द्ध्वं नयतीति शेषः । त्रिः श्वेतया शलल्या यास्ते वाके सुमतय इति स्थानत्रितये शुक्लेन शेजाजन्तुकण्टकेन यास्ते इति मन्त्रेण सीमन्तमूर्द्ध्वं नयतीति शेषः । कृषरः स्थाली- पाक उत्तरघृतस्तमवेक्षयेत् । कृषर उक्तः । स्थालीपाकश्चरुः स उपरि दत्तघृतस्तं बध्वाः प्रदर्शयेत् । स्थालीपाकपदं चरुस्थाल्यां कृष- रस्य श्रपणार्थम् । मनुष्यार्थत्वात् द्विःप्रक्षालनम् ततश्च यः कश्चिन्महानसे श्रपयित्वा स्थापयेत् । किम्पश्यसीत्युक्त्वा प्रजामिति वाचयेत् किं पश्य- सीति पतिरुक्त्वा प्रजामित्यादि मन्त्रं गभिणीं वाचयेत् । तं सा स्वयं भुञ्जीत । तमेवेक्षितं कृषरम् । वीरसूर्जीवसूर्ज्जीवपत्नीति ब्राह्मण्यो मङ्गल्यादिभिर्व्वाग्भिरुपासीरन् । बीरान् विक्रा- न्तान् पुत्त्रान् सूत इति वीरसूस्त्वं भवेति वाक्य- शेषः प्रतिपदं स्यात् । जीवतो दीर्घायुषः पुत्तान् सूत इति जीवसूः जीवतः पत्नी जीव- पत्री अविधवेत्यर्थः । एवं प्रकाराभिर्व्वाग्भि- रनुनयेयुः । क्रमश्च महाव्याहृतिभिर्हुत्वा औडुम्बरफलस्तवकं कण्ठे बद्ध्वा प्रजामिति वाचयेदित्यन्तं तन्त्रं कृत्वा व्याहृतिभिर्होमादि- तन्त्रं समापयेत् ततो ब्राह्मस्य उपासीरन् ।” इति संस्कारतत्त्वम् ॥
