सीसकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सीसकम्, क्ली, (सीसमेव । स्वार्थे कन् ।) धातु- विशेषः । सीसा इति भाषा । तत्पर्य्यायः । नागम् २ योगेष्टम् ३ वप्रम् ४ । इत्यमरः । २ । ९ । १०५ ॥ सीसम् ५ सीसपत्रकम् ६ गण्डूपदभवम् ७ सिन्दूरकारणम् ८ वर्द्धम् ९ स्वर्णारि १० यवनेष्टम् ११ सुवर्णकम् १२ । इति हेमचन्द्रः ॥ वध्रम् १३ पिच्चटम् १४ सुवर्णारि १५ त्रपु १६ त्रपुः १७ । इति शब्दरत्नावली ॥ वध्रकम् १८ महावलम् १९ यवनेष्टकम् २० । इति जटाधरः ॥ बहुमलम् २१ चीनम् २२ पिष्टम् २३ । इति रत्नमाला ॥ जडम् २४ भुजङ्गमम् २५ उरगम् २६ कुरङ्गम् २७ परि- पिष्टकम् २८ मृदुकृष्णायसम् २९ पद्मम् ३० तार- शुद्धिकरम् ३१ शिरावृत्तम् ३२ वयोवङ्गम् ३३ चीनपिष्टम् ३४ । अस्य गुणाः । “सीसन्तु वङ्गसाम्यं साद्रसवीर्य्यविपाकतः । उष्णञ्च कफवातघ्नमर्शोघ्नं गुरु लेखनम् ॥ वर्णे नीलं मृदु स्निग्धं निर्म्मलञ्च सुगौरवम् । रौप्यसंशोधने क्षिप्रं सीसकञ्च तदुत्तमम् ॥” इति राजनिर्घण्टः ॥ * ॥ अथ सीसस्योत्पत्तिनामगुणाः । “दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु मुमोच यत् । वीर्य्यं जातस्ततो नागः सर्व्वरोगापहो नृणाम् । सीसं वध्रञ्च वप्रञ्च योगेष्टं नागनामकम् । नागः भुजङ्ग इत्यादि । सीसं वङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम् ॥ नागस्तु नागशततुल्यबलं ददादि व्याधिं विनाशयति जीवनमातनोति । वह्निं प्रदीपयति कामबलं करोति मृत्युञ्च नाशयति सन्ततसेवितः सः ॥ पाकेन हीनौ किल रङ्गनागौ कुष्ठानि गुल्मांश्च तथा निकृष्टान् । पाण्डुप्रमेहानिलसादसोथ- भगन्दरादीन् कुरुतः प्रयुक्तौ ॥” * ॥ अथ सीसकस्य शोधनम् । “तस्य साहजिका दोषा वङ्गस्येव निदर्शिताः । शोधनञ्चापि तस्यैव भिषग्भिर्गदितं पुरा ॥” * ॥ अथ सीसकस्य मारणविधिः । “ताम्बू लरससंपिष्टशिलालेपात् पुनः पुनः । द्वात्रिंशद्भिः पुटैर्नाशो निरुत्थं भस्म जायते ॥” शिला मनःशिला । अन्यच्च । अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निःक्षिपेत् । मृत्पात्रे विद्रुतो नागो लोहदर्व्या प्रचालितः ॥ यामैकेन भवेद्भस्म तत्तुल्या स्यान्मनःशिला । काञ्जिकेन द्वयं पिष्ट्वा पचेद्दृढपुटेन च ॥ स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन च । पुनः पचेत् शरावाभ्यामेवं षष्टिपुटैर्मृतिः ॥” इति भावप्रकाशः ॥ मारितस्यास्य गुणाः पूर्व्ववत् ॥ * ॥ अपि च । “तैले तक्रे गवां मूत्रे काञ्जिके च कुलत्थके । त्रिधा त्रिधा विशुद्धिः स्यात् स्वर्णादीनां समासतः ॥” अथ सीसकस्य मारणम् । “कुडवं नागपत्राणां कुनट्याः स्यात् पलार्द्ध- कम् । तण्डु लीयरसैर्य्यामं यामं वासारसैस्तथा ॥ संमर्द्य च क्रियां कृत्वा घर्म्मे संशोष्य तं पुनः । सरावसंपुटे कृत्वा पचेद्वन्योपलैर्भिषक् ॥ एवं सप्तपुटैर्नागो भस्मीभवति निश्चितम् । द्विगुञ्जोऽयं ध्रुवं हन्यात् प्रमेहानखिलानपि ॥” इति वैद्यदर्पणः ॥
