सामग्री पर जाएँ

सुकुमारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुकुमारः, त्रि, (सुष्ठु कुमारयत्यनेनेति । सु + कुमारत् क केलौ + घञ् ।) कोमलः । इत्य- मरः । ३ । १ । ७८ ॥ (यथा, महाभारते । १ । १५४ । १४ । “सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् ॥”) पुं, उत्तमबालकश्च ॥

सुकुमारः, पुं, (सु + कुमारत् क केलौ + अच् । घञ् वा ।) पुण्ड्रेक्षुः । इति मेदिनी ॥ वन- चम्पकः । क्षवः । श्यामाकः । इति राज- निघण्टः ॥ दैत्यविशेषः । इति केचित् ॥ (मोदकौ- षधविशेषः । यथा, -- “त्रिवृदर्द्धं पलं चूर्णं सिताक्षौद्रं पलं पलम् । एलात्वङ्मरिचानाञ्च निष्कं प्रति विमिश्रयेत् ॥ किञ्चिन्मृद्वग्निना तप्तं कर्षद्वयञ्च भक्षयेत् । विरेकः सुकुमाराणां रक्तपित्तनिलापहः ॥” इति सुकुमारमोदकः । इति वैद्यकपत्रीसंग्रहः ॥)

"https://sa.wiktionary.org/w/index.php?title=सुकुमारः&oldid=177047" इत्यस्माद् प्रतिप्राप्तम्