सामग्री पर जाएँ

सुकृतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुकृतम्, क्ली, (सु + कृ + क्तः ।) पुण्यम् । इत्य- मरः । १ । ४ । २४ ॥ (यथा, कुमारे । ६ । ४७ । “अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् । स्वर्गाभिसन्धिसुकृतं वञ्चनामिव मेनिरे ॥”) शुभम् । सुविहिते, त्रि । इति मेदिनी ॥ (यथा, भागवते । ८ । २३ । ३१ । “क्रियमाणे कर्म्मणीदं दैवे पित्र्येऽथ मानुषे । यत्र यत्रानुकीर्त्त्येत तत् तेषां सुकृतं विदुः ॥”) सुकृतन्तु मनुष्यैः सह गच्छति । यथा, -- “सुकृतं दुष्कृतं लोके गच्छन्तमनुगच्छति । तस्माद्वित्तं समासाद्य दैवाद्वा पौरुषादथ । दद्यात् सम्यक् द्विजातिभ्यः कीर्त्तनानि च कारयेत् ॥” इति वह्निपुराणे वैष्णवक्रियायोगे यमानुशा- सनोनामाध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=सुकृतम्&oldid=177055" इत्यस्माद् प्रतिप्राप्तम्