सुख

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुख, त् क तत्कृतौ । इति कविकल्पद्रुमः ॥ (अदन्तचुरा० पर०-सक०-सेट् ।) तत्कृतिः सुखक्रिया । श्रीजयदेवकवेरिति गीतं सुखयतु केशवपदमुपनीतम् । इति दुर्गादासः ॥

सुखम्, क्ली, (सुखयतीति । सुख + अच् ।) आत्म- वृत्तिगुणविशेषः । इति नैयायिकाः ॥ मनसो धर्म्मः । इति वैदान्तिकाः ॥ तत्पर्य्यायः । मुत् २ प्रीतिः ३ प्रमदः ४ हर्षः ५ प्रमोदः ६ आमीदः ७ संमदः ८ आनन्दथुः ९ आनन्दः १० शर्म्म ११ शातम् १२ । इत्यमरः । १ । ४ । २५ ॥ मदः १३ भोगः १४ रभसः १५ निर्वृतिः १६ धृतिः १७ वीचिः १८ । इति जटाधरः ॥ संमेदः १९ मोदः २० नन्दथुः २१ नन्दः २२ मुदा २३ सौख्यम् २४ उपजोषम् २५ आनन्दम् २६ जोषम् २७ । इति शब्दरत्नावली ॥ न्यायमते जगतां काम्यं धर्म्मजन्यमिदम् । यथा, -- “सुखन्तु जगतामेव काम्यं धर्म्मेण जन्यते । अधर्म्मजन्यं दुःखं स्यात्प्रतिकूलं सचेतसाम् ॥ * तस्य मनोगोचरत्वं यथा, -- “मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः ॥” इति भाषापरिच्छेदः ॥ * ॥ “सुखं चतुर्व्विंशतिगुणान्तर्गतगुणविशेषः । तत्तु नित्यं जन्यञ्च । नित्यं परमात्मनो विशेषगुणान्त र्व्वर्त्ति । जन्यसुखं जीवात्मनो विशेषगुणान्त- व्वर्त्ति । तच्च शुभादृष्टजन्यं धनमित्रलाभारोग्य- मिष्टान्नपानपुरीषोत्सर्गपुत्त्रादिजन्मतत्पाण्डित्य कान्तासम्भोगादिजन्यञ्च तस्य द्विक्षणस्थायित्वं स्वोत्तरोत्पन्नानुभवनाश्यत्वात् । सुखाद्यपरागे- णैवात्मनो मानसबोधः । सुखं तदुपायश्चेष्टः । बालस्य स्तन्यपानप्रवृत्तौ सुखसाधनत्वज्ञानं हेतुः तत्र सुखस्यैवेष्टत्वम् । दुःखजनकगमनादि- प्रवृत्तौ सुखोपायो धनं तदेवेष्टं तत्साधनत्वज्ञान- मेव हेतुः । यागादिप्रवृत्तावपि पारलौकिक- सुखसाधनत्वज्ञानं कारणं सुखोपायस्वर्गादिरूपे- ष्टसाधनत्वज्ञानमपि कारणम् । सुखस्य काला- वच्छेद्यत्वं शरीरावच्छेद्यत्वञ्चातोऽव्याप्यवृत्तित्वं शरीरकदेशावच्छेदेन दुःखसम्भवेऽप्यन्यदेशा- वच्छेदेन सुखसम्भवात् एकक्षणावच्छेदेन जीवस्य दुःखसम्भवेऽपि क्षणान्तरावच्छेदेन सुखसम्भवाच्च तत्तु विस्फोटकवतो मिष्टान्न- भोजनादौ द्रष्टव्यम् । इति तार्किकाः ॥ * ॥ तत्कारणं यथा, -- “सुदिनं दुर्द्दिनं शश्वद्भ्रमत्येव भवे भव । सर्व्वेषां प्राकृतानाञ्च द्वे बीजे सुखदुःखयोः ॥ सुखाद्भवति हर्षश्च दर्पः शौर्य्यं प्रमत्तता । राग ऐश्वर्य्यकामौ च विद्वेषश्च परस्परम् ॥ दुःखात् शोकात् समुद्वेगाद्भयं नित्यं प्रवर्त्तते । राजनिर्घण्टः ॥ जलम् । इति केचित् ॥ सुख- विशिष्टे, त्रि । यथा, -- “शस्तञ्चाथ त्रिषु द्रव्ये पापंपुण्यं सुखादि च ।” इत्यमरः । १ । ४ । २६ ॥ “पापपुण्यशब्दौ सुखादयः शस्तान्ताश्च गुणे यथोक्तलिङ्गाः उपचारात्तद्वति द्रव्ये विशेष्ये वर्त्तमाना वाच्यलिङ्गाः । यथा, -- “पापा ऋतुमती कन्या पापो राजाप्यरक्षकः पापं व्याधकुलं हिंस्रं पापो विप्रश्च सेवकः ॥” पुण्यं तीर्थं पुण्या नदी पुण्य आश्रमः । सुखा भूतिः सुखो वासः सुखं कामिकुलम् ।” इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुख नपुं।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

1।4।25।1।5

स्यादानन्दथुरानन्दः शर्मशातसुखानि च। श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्.।

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुख¦ सुखसम्पादने अद॰ चु॰ उभ॰ सक॰ सेट्। सुखयति--तेव्यतुसुखत--त। अनेकाच्कत्वेन न षोपदेशः।

सुख¦ न॰ सक्ष--अच्।

१ पुण्यजन्ये आनन्दे गुणभेदे अमरः

२ अनुकूलवेदनीये यदनुभवाय चित्तमनुकूलं भवति तस्मिन्{??}र्थे तच्च आत्मधर्म इति नैयायिकादयः। चित्त-धर्म इति साङ्ख्य दयः। सुखयतीति अच् सुखमस्यास्तियम् वा।

३ सुखांरके

४ सुखिनि च त्रि॰!

५ वरुणपूर्य्यांस्त्री

६ खर्गे मेदि॰।
“यन्न दुःखेन सम्भिन्नं न च ग्रस्त-मनन्तरम्। अभिलाषोपनीतं च तत्सुखं खःपदा-स्पदम्” श्रुत्या दुःखासम्भिन्नसुखस्यैव{??}र्गपदार्थत्वेनाभि-धानात् तस्य सुखविशेषात्मकत्वात् तथात्वम्।

७ वृद्धि-नामोषधौ राजनि॰। सुखत्वं तु जातिभेदः तल्लक्षणन्तुकाम्यभावत्वम् अन्येच्छानधीनच्छाविषयत्वे सति भावत्वमितियावत् दुःखाभावस्य काम्यत्वेऽपि तस्य भावत्वा-भावान्नातिव्याप्तिः।
“सुखं तु जगतामेव काम्यंधर्मेण जन्यते” भाषा॰। तथाच धर्मासमवायिकार-{??}न्यशुणत्वं तल्लक्षणमिति फतितोऽर्थः। सखदुः{??}योः[Page5307-b+ 38] परस्परभिन्नत्वे कारणादिकं कणा॰ सू॰ वृत्त्योर्दर्शितं यथा
“इष्टानिष्टकारणविशेषाद्विरोधांच्च मिथः सुखदुःयोरथा-न्तरभावः” कणा॰ सू॰।
“आत्मगुणानां कारणतोभेद-व्युत्पादनं दशमाध्यायार्थः, तत्र
“आत्मशरीरेन्द्रियार्थ-बुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्” इति गौतमीये प्रमेयविभागसूत्रे सुखस्यानभिधानात्दुःखाभिन्नमे{??} सुखमिति भ्रमनिरासार्थं सुखदुःणयोरेब प्रथमं भेदमाह
“सुखदुखयोर्मियः परस्परमर्था-न्तरभावोभेदो वैजात्यमिति यावत् कुत इत्यत आहइष्टानिष्टकारणविशेषात् इष्टं इष्यमाणं स्रक्चन्दंन-वनितादि, अनिष्टमनिष्यमाणमहिकण्टकादि, तद्रूपंयत्करणं तस्य विशेषाद्भेदात् कारणवैजात्याधीनं कार्य्य-वैजात्यमावश्यकं यतः, भेदकान्तरमाह विरांधात् सहा-नस्थानलक्षणात् नह्येकस्मिन्नात्मन्येकदा सुखदुःखयो-रनुभवः चकारादनयाः कार्य्यभेदं भेदकं समुच्चिनोति,तथा हि अनुग्रहाभिष्वङ्गनयनप्रसादादि सुखस्य, दैन्य-मुखमालिन्यादि दुःखस्य कार्य्यमिति ततोऽप्यनयोर्भेदः। तदुक्तं प्रशस्ताचार्य्यैः
“अनुग्रहलक्षणं सुखं स्रगा-द्यभिप्रेतषिषयसान्निध्ये सति इष्टोत्पन्नधीन्द्रियार्थसन्नि-कर्षा{??}र्माद्यपेक्षादात्ममनसोः संयोगाद्यद्यदनुग्रहाभि-ष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत् सुखम्” इति। तदिदमतीतेषु स्रक्चन्दनादिषु स्मृतिजमनागतेषु सङ्क-ल्पजम्। गौतमीये सूत्रे सुखापरिगणनं वैराग्याय सुख-मपि दुःखत्वेन भावयतो वैराग्यं स्यादेतदर्थमिति” उ॰ वृ॰।
“तच्च सुखं चतुर्विधं वैषयिकमाभिमानिकं मानोरथिकम्आभ्यासिकंर्ञ्चेति” उप॰ वृत्ति॰। आद्यं विषयेन्द्रियसा-क्षात्कारजन्यं, द्वितीयं राजाधिपत्यपाण्डित्यगर्वांदिजन्यं,तृतीयं विषयध्यानजन्यम् चतुर्थं सूर्य्यादिनमस्कारायामा-दिजन्यं लाघवरूपमिति”। पात॰ सू॰ वैषयिकसुखानां परिणामदुःस्वत्वादिभिःदुःखत्वं व्यवस्थापितं वैराग्यार्थं यथा
“परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेवसर्वं विवेकिनः” सू॰।
“सर्वस्यायं रागानुविद्धश्चेतना-चेतनसाधनाधीनमखानुभव इति तत्रास्ति रागजःकर्माशयः तथा च द्वेष्टि दुःखसाधनानि मुख्यति चेतिद्वेषमोहकृतोऽप्यस्ति। तथा चोक्तम्
“नानुपहत्य भूता-न्युपभोगः सम्भवतीति” हिंसाकृतोऽप्यस्ति शारीरःकर्मागय इति विषयसुखं चाविद्येत्युक्तम्। या भोगे-[Page5308-a+ 38] ष्विन्द्रियाणां तृप्तेरुपशान्तिः तत् सुखं या लौल्याद-नुवशान्तिस्तद् दुखम्। न चेन्द्रियाणां भोगाभ्यासेनवैतृष्ण्यं कर्त्तुं शक्यं कस्माद् यतो भोगाभ्यास-मनुविवर्द्धन्ते रागाः कौशलानि चेन्द्रियाणामितितस्मादनुपायः सुखस्य भोगाभ्यास इति स खल्वयंवृश्चिकविषभीत इवाशीविषेण दष्टो यः सुखार्थी विष-याननुवासितो महति दुःस्वपङ्के मग्न इति। एषापरिणामदुःखता नाम प्रतिकूला सुखावस्थायामपि यो-गिनमेव क्लिश्नाति। अथ का तापदुःखता सर्वस्य द्वे-षानुविद्धश्चेतनाचेतनसाधनांधीनस्तापानुभव इति। त-त्रास्ति द्वेषजः कर्माशयः सुखसाधनानि च प्रार्थमानः कायेन वाचा मनसा च परिस्पन्दते ततः पर-मनुगृह्नात्युपहन्ति चेति परानुग्रहपीडाभ्यां धर्मा-धर्मानुपचिनोति स कर्माशयो लोभान्मोहाच्च भवती-त्येषा तापदुःखतोच्यते। का पुनः संस्कारदुःखता। सुखानुभवात् सुखसंस्काराशयो दुःखानुभवादपि दुःख-संस्काराशय इति एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखेदुःखे वा पुनः कर्माशयप्रचय इति एवमिदमनादिदुःख-स्रोतोविप्रसृतं योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयतिकस्मात् अक्षिपत्रकल्पो हि विद्वानिति यथोर्णातन्तुरक्षिपत्रे न्यस्तः स्पर्शेन दुःखयति नान्येषु गात्राव-यवेषु एवमेतानि दुःखानि अक्षिपत्रकल्पं योगिन-मेव क्लिश्नन्ति नेतरम् इतरन्तु स्वकर्मोपहृतं दुःखमुपा-त्तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानम् अनादिवा-सनाविचित्रया चित्तवृत्त्या समन्ततोऽनुविद्धमिवावि-द्यया हातव्य एवाहङ्कारममकारानुपातितं जातंजातं वाह्याध्यात्मिकोभयनिमित्तास्त्रिपर्वाणस्तापा अनु-प्लवन्ते तदेवमनादिदुःखस्रोतसा व्यूह्यमानमात्मानंभूतग्रामञ्च दृष्ट्वा योगी सर्वदुःखक्षयकारिणं सम्यग्दर्शनंशरणं प्रपद्यत इति गुणवृत्तिविरोधाच्च दुःस्वमेवसर्वं विवेकिनः। प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाःपरस्परानुग्रहतन्त्रीभूताः शान्तं षोरं सूढं वा प्रत्ययंत्रिगुणमेव प्रारभन्ते चलञ्च गुणवृत्तमिति क्षिप्रपरि-णामि चित्तमुक्तरूपातिशयाद्वृत्त्यतिशयाश्च परस्परेणविरुध्यन्ते सामान्यानि तु अतिशयैः सह प्रवर्त्तन्ते एव-{??}ते गुणा इतरेतराश्रयेणोपार्जितसुखदुखमोहप्रत्ययाइति सर्वे सर्वरूपा भवन्ति गुणप्रधानभावकृतस्तेषुविशेष इति तस्मात् दु खमेव सर्व विवेकिन” वा॰। [Page5308-b+ 38]
“तच्च सुखं नित्यं जन्यञ्चेति बेदान्तिनः। तत्र विषय-संपर्कात् वैषयिकं सुखं जन्यम्, ब्रह्मस्वरूपं सुखं नित्यमितितदेतन्मतं मुक्तिवादे मणिकता निराकृतम् यथा
“न च नित्यसुखाभिव्यक्तिर्मुक्तिः। सा हि न नित्यामुक्तशरीरिणोरविशेषापातात् नोत्पाद्या तद्धेतुशंरीराद्यभावात् ज्ञानमात्रे सुखमात्रे वा तद्धेतुत्वावधारणात् निःसंसारदशायां तद्धेतुसामान्ये वाधकाभा-वात्। अतएव सर्गादौ शरीरकल्पना। किं वा तज्ज-नकं न तावदात्ममनः सयोगः तस्यादृष्टादिनिरपेक्षस्यांजन-कत्वात् विषयमात्रापेक्षणे तु संसारदशायामपि तद-मिव्यक्तिप्रसङ्गः नापि योगजोधर्मः सहकारी तस्योत्पन्न-भावत्वेन विनाशित्वेऽपरत्र निवृत्त्यापत्तेः न च तज्ज-न्याभिव्यक्तिरनन्ता तस्या अपि तत एव नाशात्। अथतत्त्वज्ञानात् सवासनमिथ्याज्ञाननाशे दोषाभावेन प्रवृ-त्त्याद्यभावाद्धर्माधर्मयोरनुत्पादे प्राचीनधर्माधर्मक्षयाद्-दुःखसाधनशरीरादिनाश एव तत्र हेतुः अतएव तस्या-नन्त्येनाभिव्यक्तिप्रवाहोऽप्यनन्त इति चेन्न शरीरं विनातदनुत्पत्तेः तस्य तद्धेतुत्वे मानाभावाच्च। न च मोक्षादि-प्रवृत्तिरेवे मानं दुःखहानार्थितया तदुपपत्तेः। नचनित्ये सुखे मानमस्ति
“नित्यं विज्ञानमानन्दम् ब्रह्म”
“आनन्दं ब्रह्मणोरूपं तच्च मोक्षे प्रतिष्ठितमित्यादि” णुतिमांनमिति चेन्न उपजननापायवतोर्ज्ञानसुखयो-रहं जानाम्यहं सुखीति अभिन्नत्वेनानुभूयमानयो-र्ब्रह्माभेदवोधने प्रत्यक्षबाधात्। अथ सुखस्य ब्रह्मा-भेदबोधनादेवायाग्यतयाऽनित्यं सुख विहाय वाक्यार्थ-त्वेन नित्यसुखसिद्धिः स्वर्गवत् न तु नित्यसुखे सिंद्धेतदभेदवोधनं येनान्योन्याश्रयः, यद्वा नित्यं सुखं बोध-यित्वा तदमिन्नं ब्रोध्यते न च वाक्यभेष्टः वाक्यैक-वाक्यत्वादिति चेन्न आत्ममनोऽनुभूयमानत्वेन तदभि-न्नस्य नित्यसुखस्याप्यनुभवप्रसङ्गात् सुखमात्रस्य स्रगो-चरसाक्षात्कारजनकत्वनियमात् तदनुमवे वात्मनोऽप्य-नुभवो न स्यात्। अथात्माभिन्नं नित्यसुखमनुभूयतएव सुखत्वं तु तत्र नानुभूयत इति चेन्न सुखानुभव-सामग्र्या एव सुखत्वानुभावकत्वात् तस्मादानन्दं ब्रह्मेतिमत्वर्थीयाच्प्रत्ययान्तत्वेनानन्दं वोध्यते नाभेदः, अन्यधानपुं सकत्वानुपपत्तेः। एतेन ब्रह्माद्वैतत्त्वसाखात्कारा-दविद्यानिवृत्तौ विज्ञानंसुखात्मकः केवलं आत्मापवर्गेवर्त्तत इति वेदान्तिमतमपास्तम् स्वप्रकाशसुखात्मकब्र-[Page5309-a+ 38] ह्मलो नित्यत्वे मुक्तसंसारिणोरविशेषप्रसङ्गात् पुरुष-प्रयत्नं विना तस्य सत्त्वादपुरुषार्थत्वाच्च अविद्या-निवृत्तिः प्रयत्नसाध्येति चेत् अविद्या यदि मिथ्या-ज्ञाननमर्थान्तरं वा उभयथापि सुखदुःखाभावसाधनेतर-त्वेन तन्निवृत्तेरपुरुषार्थत्वात्”। तत्र दुःखाभावस्यैव परमप्रयोजनत्वं न सुखस्येति व्यव-स्थापितं यया
“नंनु दुःखाभावो न पुरुषार्थः सुखस्यापि हानिस्तुल्या-यव्ययत्वात् न च नहुतरदुःखानुविद्धतया सुखस्यारिप्रेक्षावद्धेयत्वम् आवश्यकत्वेन दुःखस्यैव हेयत्वा{??}{??} निरुपथीच्छायिषयत्वात् अन्यथा दुःखाननुविद्ध-तया तथात्वेन पुरुषार्थत्वविरोधादिति चेन्न सुखमनु-द्दिश्यापि दुःखभीरूणां दुःखाभावदशायां सुखमस्ती-त्युद्दिश्य दुःखाभावार्थं प्रवृत्तेः वैपरीत्यस्यापि सम्भवेसुस्वस्याप्यपुरुषार्थतापत्तेः अतो दुःखाभावदशायांसुखं नास्तीति ज्ञानं न दुःखाभाव्रार्थिप्रवृत्तिप्रतिबन्धकंनस्मादवियेकिनः सुखमात्रलिप्सवो बहुतरदुःखानु-विद्धमपि सुखमुद्दिश्य
“शिरोमदीयं यदि यातु यात्विति,कृत्वा परदारेष्वपि प्रवर्त्तमानाः
“वरं वृन्दावनेऽरण्ये” इत्यादि वदन्तोनात्राधिकारिणः। ये च विवेकिनोऽ-स्मिन् संसारापारकान्तारे कियन्ति दुःखदुर्दिनान्लि कि-यती सुखखद्योतिका कुपितफणिफणामण्डलच्छाया-प्रतिममिदमिति मन्यमानाः सुखमपि हातुमिच्छन्तितेऽत्राधिकारिणः। न च भोगार्थिनामप्रवृत्तौ पुरुषार्थता हीयते कस्यचिदप्रवृत्तावपि चिकित्सादेः पुरु-षार्थत्वात्। अथवा
“दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते। न हि मूर्च्छाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीः,पुरुषार्थत्वं सुखवज्ज्ञायमानं नियर्मात् न च मुक्ति-ज्ञानं सम्भवतीति न हि दुःखाभावं जानीयामित्युद्दिश्य प्रवृत्तिः किन्तु दुःखं मे मा भूदित्युदिश्य स्वतोदुःखाभाव एव पुरुषार्थः तस्य ज्ञानन्तु स्वकारणाधीमन तु पुरुषार्थतोपयोगि सुखी स्यामित्युद्दिश्य प्रव-र्त्तते न तु सुखं जानीयामिति सुखमेव तथास्तु नतदवगमः तस्यानावश्यकत्वेनान्यथासिद्धत्वात् गौरवाच्च। किञ्च बहुतरदुःखजर्जरकलेवरादुःखाभावमुद्दिश्य मरणेऽपि प्रवर्त्तमाना दृश्यन्ते न च मरणे तस्य ज्ञान-मस्ति न ते विवेकिन इति चेन्न पुरुषार्थत्वे विवेकानु-पयोगात्”। [Page5309-b+ 38] तच्च सुखं चित्तधर्मोऽपि अध्यस्ततया प्रतिविंम्बरूपेण वाआत्मनि वर्त्तते इति सांख्या वेदान्तिनश्च। आत्मगुणइति नैयायिकाः।

८ दुःखाभावे। भारवाहकस्य भाराप-गमे सुखी संवृत्तोऽहमिति प्रत्ययस्य दुःखाभावविषय-तयोपगमात्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुख¦ r. 10th cl. (सुखयति-ते) To make happy.

सुख¦ mfn. (-खः-खा-खं)
1. Happy, joyful, delighted.
2. Virtuous, pious.
3. Easy, practicable.
4. Agreeable, sweet, comfortable.
5. Suitable. n. (-खं)
1. Happiness, pleasure, delight.
2. Heaven, paradise.
3. Water.
4. Prosperity.
5. Ease, alleviation.
6. Easiness. f. (-खा) The capital of VARUN4A. E. सु good, ख an organ of sense; or सुख-अच् aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुख [sukha], a. [सुख-अच्]

Happy, delighted, joyful, pleased.

Agreeable, sweet, charming, pleasant; विविक्तवर्णाभरणा सुखश्रुतिः Ki.14.3; दिशः प्रसेदुर्मरुतो ववुः सुखाः R.3.14; so सुखश्रवा निस्वनाः 3.19.

Virtuous, pious.

Taking delight in, favourable to; Ś.7.18.

Easy practicable; श्रेयांसि लब्धुमसुखानि विनान्तरायैः Ki.5.49.

Fit, suitable.

खा The capital of Varuṇa.

(In phil.) The effort to win future beatitude.

Piety, virtue.

खम् Happiness, joy, delight, pleasure, comfort; यदेवोपनतं दुःखात् सुखं तद्रसवत्तरम् V. 3.21.

Prosperity; अद्वैतं सुखदुःखयोरनुगुणं सर्वास्ववस्थासु यत् U.1.39.

Well-being, welfare, health; देवीं सुखं प्रष्टुं गता M.4.

Ease, comfort, alleviation (of sorrow &c.); oft in comp; as in सुखशयित, सुखोपविष्ट, सुखाश्रय &c.

Facility, easiness, ease.

Heaven, Paradise.

Water. -खम् ind.

Happily, joyfully; भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी Rām.7.41.1.

Well; सुखमास्तां भवान् 'many you fare well'.

At ease, comfortably; असंजातकिणस्कन्धः सुखं स्वपिति गौर्गडिः K. P. 1.

Easily, with ease; अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः Bh.2.3; सुखमुपदिश्यते परस्य K.

Rather, willingly.

Quietly, placidly; सुखं रात्रीः शयिता वीतमन्युः Kaṭh.1.11. -Comp. -अन्त a.

ending in happiness.

friendly.

destroying happiness. -अधिष्ठानम् a happy state. -अभियोज्य a. easily assailable. -अभ्युदयिक a. causing joy or pleasure; सुखाभ्युदयिकं चैव नैःश्रेयसिकमेव च Ms.12.88. -अर्थः anything that gives pleasure; Ms.6.26. -आगतम् welcome. -आजातः N. of Śiva.-आत्मक a. consisting of pleasure. -आत्मन् the Supreme Spirit, Brahma; पृथगाचरतस्तात पृथगात्मसुखात्मनोः Mb.13. 12.8. -आधारः paradise. -आप a. easily won or attained. -आप्लव a. suitable for bathing. -आयतः, -आयनः a good or well-trained horse. -आराध्य a. easy to be conciliated or propitiated. -आरोह a. of easy ascent. -आलोक a. good-looking, lovely, charming-आवह a. conducing to happiness, pleasant, comfortable.

आशः eating at ease.

pleasant food.

N. of Varuṇa. -आशकः a cucumber. -आसक्तः an epithet of Śiva. -आसनम् a comfortable seat. -आसीन a. comfortably seated; also सुखनिविष्ट. -आस्वाद a.

having a sweet taste, sweet-flavoured.

agreeable, delightful.

(दः) a pleasant flavour.

enjoyment (of pleasure). -उचित a. accustomed to comfort or happiness.

उत्सवः merry-making, pleasure, festival, jubilee.

a husband. -उदकम्, -उष्णम् warm water.

उदयः dawn or realization of happiness.

an intoxicating drink. -उदर्क a. resulting in happiness.-उद्भवा yellow myrobalan; L. D. B. -उद्य a. to be spoken easily or agreeably. -उपविष्ट a. comfortably seated, sitting at ease. -एषिन् a. desiring happiness, wishing well to. -ऊर्जिकः natron. -कर, -कार, -दायकa. giving pleasure, pleasant. -चारः a good horse.-जात a. happy; सुखजातः सुरापीतः ...... Bk.5.38. -तन्त्रa. enjoying pleasure; अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः Rām.2.1.27. -द a. giving pleasure. (-दः) N. of Viṣṇu.

(दा) a courtezan of Indra's heaven.

the river Ganges.

the Śamī tree. (-दम्) the seat of Viṣṇu. -दोह्या a cow easily milked. -प्रविचार a. easily accessible. -प्रश्नः inquiry as to welfare. -बद्ध a. lovely.

बोधः sensation of pleasure.

easy knowledge. -भागिन्, -भाज् a. happy. -भेद्य a. easy to be broken (fig. also), fragile, brittle. -मानिन् seeking joy in. -मोदा the gum olibanum tree.

रात्रिः the night of new moon (when lamps are lighted in honour of Lakṣmī).

a night when the husband may legally cohabit with his wife; see Ms.3.47. -रात्रिः, -रात्रिका Lakṣmī. -रूप a. having an agreeable appearance.-वर्चकः, -वर्चस् m. natron, alkali. -वह a. easily borne or carried. -वासः a water-melon. -वेदनम् consciousness of pleasure. -श्रव, -श्रुति a. sweet to the ear, melodious; विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् Ki.14.3. -संगिन a. attached to pleasure; बद्धमिव स्वैरगतिर्जनमिह सुखसंगिनमवैमि Ś.5.11. -संदु(दो)ह्या f. a cow easily milked; L. D. B. -संयोगः gain of eternal bliss; धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् Ms.6.64. -साध्य a. easy to be accomplished or cured &c. -सुखेन ind. most willingly. -सेव्य a. easy of access. -स्वर्श a.

agreeable to the touch.

gratifying, pleasant; सेव्य- मानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः R.1.38. -हस्त a. having a soft or gentle hand.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुख/ सु--ख etc. See. सुखs.v.

सुख mfn. (said to be fr. 5. सु+ 3. ख, and to mean originally " having a good axle-hole " ; possibly a Prakrit form of सु-स्थSee. ; See. दुःख)running swiftly or easily (only applied to cars or chariots , superl. सुख-तम) , easy RV.

सुख mfn. pleasant (rarely with this meaning in वेद) , agreeable , gentle , mild( comp. -तर) VS. etc.

सुख mfn. comfortable , happy , prosperous(= सुखिन्) R.

सुख mfn. virtuous , pious MW.

सुख m. N. of a man g. शिवा-दि

सुख m. ( scil. दण्ड)a kind of military array Ka1m.

सुख m. (in music) a partic. मूर्छनाSam2gi1t.

सुख m. N. of the city of वरुणVP.

सुख m. of one of the 9 शक्तिs of शिवL.

सुख n. ease , easiness , comfort , prosperity , pleasure , happiness (in m. personified as a child of धर्मand सिद्धिMa1rkP. ), joy , delight in( loc. ; सुखम्-कृ" to give pleasure " ; महता सुखेन, " with great pleasure ") , the sky , heaven , atmosphere(See. 3. ख) L.

सुख n. water Naigh. i , 12

सुख n. N. of the fourth astrol. house VarBr2S.

सुख n. the drug or medicinal root called वृद्धिMW.

"https://sa.wiktionary.org/w/index.php?title=सुख&oldid=231622" इत्यस्माद् पुनः प्राप्तिः