सामग्री पर जाएँ

सुखरात्रिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुखरात्रिका, स्त्री, (सुखकरी रात्रिर्येस्या- मिति । पक्षे कप् ।) दीपा- न्वितामावास्यारात्रिः । तद्विधानं यथा, ज्योतिषे । “तुलाराशिगते भानौ अमावास्यां नराधिपः । स्नात्वा देवान् पितॄन् भक्त्या संपूज्याथ प्रणम्य च कृत्वा तु पार्व्वणश्राद्धं दधिक्षीरगुडादिभिः । ततोऽपराह्णसमये घोषयेन्नगरे नृपः । लक्ष्मीः संपूज्यतां लोका उल्काभिश्चापि वेष्ट्यताम् ॥” * ॥ दर्शद्वैधे प्रदोषव्याप्त्या निर्णयः । “तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्सयोः । उल्काहस्ता नराः कुर्य्युः पितॄणां मार्गदर्शनम् ॥” इति ज्योतिषात् ॥ उभयतः प्रदोषप्राप्तौ परदिन एव युग्मात् । “दण्डैकरजनीयोगो दर्शस्य स्यात् परेऽहनि । तदा विहाय पूर्व्वेद्युः परेऽह्नि सुखरात्रिका ॥” इति ज्योतिर्व्वचनाच्च ॥ उभयत्र प्रदोषाव्याप्तावपि उल्कादानं परदिने पूर्व्वोक्तपार्व्वणानुरोधात् । “भूताहे ये प्रकुर्व्वन्ति उल्काग्रहमचेतसः । निराशाः पितरो यान्ति शापं दत्त्वा सुदारुणम् ॥” इति ज्योतिर्व्वचनाच्च ॥ * ॥ अत्रैव लक्ष्मीः पूर्व्वाहे रात्रौ पूज्या । “अमावास्या यदा रात्रौ दिवाभागे चतुर्द्दशी । पूजनीया तदा लक्ष्मीर्व्विज्ञेया सुखरात्रिका ॥” इति ज्योतिव्वचनात् ॥ * ॥ उल्काग्रहणादिपितृकृत्यत्वात् प्राचीनावीतिना दक्षिणामुखेन कर्त्तव्यम् । तथा च मनुः । “प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा । पित्र्यमानिधनात् कार्य्यं विधिवद्दर्भपाणिना ॥” तत्र ग्रहणमन्त्रः । “शस्त्राशस्त्रहतानाञ्च भूतानां भूतदर्शयोः । उज्ज्वलज्योतिषा देहं दहेयं व्योमवह्निना ॥” दानमन्त्रश्च । “अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम उज्ज्वलज्योतिषा दग्धास्तेयान्तु परमा गतिम् ॥” विसर्ज्जनमन्त्रः । “यमलोकं परित्यज्य आगता ये महालये । उज्ज्वलज्योतिषा वर्त्म प्रपश्यन्तो व्रजन्तु ते ॥” * ब्रह्मपुराणम् । “अमावास्यां यदा देवाः कार्त्तिकेमासि केशवात् अभयं प्राप्य सुप्ताश्च क्षीरोदार्णवसानुषु ॥ लक्ष्मीर्दैत्यभयान्मुक्ता सुण्वं सुप्ताम्बु जोदरे । चतुर्युगसहस्रान्ते ब्रह्मा स्वपिति पङ्कजे ॥ अतोऽत्र विधिवत् कार्य्या मनुष्यैः सुखरात्रिका दिवा तत्र न भोक्तव्यमृते बालातुराज्जनात् ॥ प्रदोषसमये लक्ष्मीं पूजयित्वा यथाक्रमम् । दीपवृक्षास्तथा कार्य्या भक्त्या देवगृहेष्वपि ॥ चतुष्पथश्मशानेषु नदीपर्व्वतसानुषु । वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु च ॥ बस्त्रैः पुष्पैः शोभितव्याः क्रयविक्रयभूमयः । दीपमालापरिक्षिप्ते प्रदोषे तदनन्तरम् ॥ ब्राह्मणान् भोजयित्वादौ विभोज्य च बुभुक्षि- तान् । अलङ्कृतेन भोक्तव्यं नववस्त्रोपशोभिना । स्निग्धैर्म्मुग्धैर्व्विदग्धैश्च बान्धवैर्भृतकैः सह ॥” मुग्धैः सुन्दरैः । मुग्धः सुन्दरमूढयोरिति विश्वः ॥ * ॥ अत्र लक्ष्मीपूजायां पुष्पदानकाले । “नमस्ते सर्व्वदेवानां वरदासि हरिप्रिये । या गतिस्त्वत्प्रपन्नानां सा मे भूयात् तदर्च्चनात्” लक्ष्म्यै नमः । इत्यनेन वारत्रयं पूजयेत् । “सुखरात्र्यां प्रदोषे तु कुवेरं पूजयन्ति ये ॥” इति रुद्रधरधृतात् कुबेरमपि पूजयन्ति । “धनदाय नमस्तुभ्यं निधिपद्माधिपाय च । भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः ॥” इति पठित्वा कुबेराय नमः । इति त्रिः पूज- येत् । ततो देवगृहादिषु दीपान् दद्यात् । तत्र मन्त्रः । “अग्निज्योती रविज्योतिश्चन्द्रज्योतिस्तथैव च । उत्तमः सर्व्वज्योतीनां दीपोऽयं प्रतिगृह्यताम् ॥” ततो ब्राह्मणान् बन्धूंश्च भोजयित्वा स्वयं भुक्ता सुखं सुप्त्वा प्रत्यूषे भविष्योक्तं कर्म्म कुर्य्यात् । यथा, -- “सुखरात्रेरुषःकाले प्रदीपोज्ज्वलितालये । बन्धुर्वन्धूनबन्धूश्च वाचा कुशलयार्च्चयेत् ॥ प्रदीपवन्दनं कार्य्यं लक्ष्मीमङ्गलहेतवे । गोरोचनाक्षतञ्चैव दद्यादङ्गेषु सर्व्वतः ॥” लक्ष्मीपूजामन्त्रः । “विश्वरूपस्य भार्य्यासि पद्मे पद्मालये शुभे । महालक्ष्मि नमस्तुभ्यं सुखरात्रिं कुरुष्व मे ॥ वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् । सुखरात्रिप्रभातेऽद्य तन्मे लक्ष्मीव्यपोहतु ॥ या रात्रिः सर्व्वमूतानां या च देवेष्ववस्थिता । संवत्सरप्रिया या च सा ममास्तु सुमङ्गला ॥ माता त्वं सर्व्वभूतानां देवानां सृष्टिसम्भवा । आख्याता भूतले देवि सुखरात्रि नमोऽस्तु ते ॥” लक्ष्म्यै नमः । इति त्रिः पूजयेत् । इति तिथ्यादि तत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुखरात्रिका¦ स्त्री सुखा रात्रियस्याः

५ ब॰ कप्। दीपान्विता-मास्यायां पूज्यायां लक्ष्म्याम दोपान्वितामुपक्रम्य
“पूज-नीया तदा लक्ष्मीर्विज्ञेया सुखरात्रिका” ज्योतिर्वचनम्। कष्ठभाये सुखरात्रिरप्यत्र
“आख्याता भूतले देवि!सुखरात्रि! नमोऽस्तुते” इति दीपान्वितामावस्यायांलक्ष्मीपूजनमन्त्रः।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुखरात्रिका/ सुख--रात्रिका f. a partic. night of new moon (when there is a festival in honour of लक्ष्मि, celebrated with lighted lamps) Cat.

सुखरात्रिका/ सुख--रात्रिका f. a night when a wife may be legally approached(See. Mn. iii , 47 ) MW.

सुखरात्रिका/ सुख--रात्रिका f. a quiet or comfortable night(See. सौरात्रिक).

"https://sa.wiktionary.org/w/index.php?title=सुखरात्रिका&oldid=231969" इत्यस्माद् प्रतिप्राप्तम्