सामग्री पर जाएँ

सुगतिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुगतिः, पुं, (शोभना गतिर्यस्य ।) अतीतकल्पी- यार्हद्भेदः । इति हेमचन्द्रः ॥ ग्रन्थकर्त्तृविशेषः । यथा, सुगतिसोपानप्रभृतयोऽप्येवमिति स्मार्त्त- लिखनम् ॥ (गयस्य पुत्त्रविशेषः । यथा, भाग- वते । ५ । १५ । १४ । “गयात् गायन्त्यां चित्ररथः सुगतिरविरोधन इति त्रयः पुत्त्रा बभूवुः ।” शोभना गतिर्य्य- स्येति । शोभनगतिशीले, त्रि । यथा, बृहत्- संहितायाम् । ९ । ४५ । “सुगतिरविकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः ॥” स्त्री, सद्गतिः । यथा, महाभारते । १ । २ । ३३५ । यत्र धर्म्मं समाश्रित्य विदुरः सुगतिं गतः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सुगतिः&oldid=177133" इत्यस्माद् प्रतिप्राप्तम्