सुगन्धः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुगन्धः, पुं, (शोभनो गन्धो यस्य ।) रक्त्वशिग्रुः । गन्धकः । चणकः । भूतृणम् । इति राज- निर्घण्टः ॥ (भूपलाशः । तत्पर्य्यायो यथा, -- “आस्फातकः सुगन्धश्च भूपलाशो विशल्यकृत् ॥” इति वैद्यकरत्नमालायाम् ॥ कुन्दुरुः । सुगन्धद्रव्यशल्लकीनिर्य्यासः । तत्- पर्य्यायो यथा, -- “कुन्दुरुस्तु मुकुन्दः स्यात् सुगन्धः कुन्द इत्यपि ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥ क्रिमिभेदः । यथा, -- “अन्त्रादा उदरावेष्टा हृदयादा महागुदाः । चुरवो दर्भकुसुमाः सुगन्धास्ते च कुर्व्वते ॥” इति वैद्यकरुग्विनिश्चयसंग्रहे क्रिम्यधिकारे ॥) समवायातिरिक्तसम्बन्धेन सद्गन्धविशिष्टे, त्रि ॥ (यथा, भट्टिः । २ सर्गे । “आघ्रायिवान गन्धवहः सुगन्धः ॥”)
