सुगन्धकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुगन्धकः, पुं, (शोभनो गन्धो यस्य । ततः कन् ।) रक्ततुलसी । गन्धकः । इति रत्नमाला ॥ नाग- रङ्गकः । इति त्रिकाण्डशेषः ॥ कर्क्कोटकः । इति हेमचन्द्रः ॥ (शालिधान्यम् । यथा, -- “रक्तशालिः मकलमः पाण्डुकः शकुनाहृतः । सुगन्धकः कर्द्दमको महाशालिश्च दूषकः ॥ पुष्पाण्डकः पुण्डरीकस्तथा महिषमस्तकः । दीर्घशूकः काञ्चनको हायनो लोध्रपुष्पकः ॥ इत्याद्याः शालयः सन्ति बहवो बहुदेशजाः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
