सामग्री पर जाएँ

सुगन्धम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुगन्धम्, क्ली, (शोभनो गन्धो यस्य ।) क्षुद्र- जीरकम् । गन्धतृणम् । इति रत्नमाला ॥ (भूतृणम् । तत्पर्य्यायो यथा, -- “गुह्यबीजन्तु भूतीकं सुगन्धं जम्बुरुप्रियम् । भूतृणन्तु भवेच्छत्रा मालातृणकमित्यपि ॥” इति भावप्रकाशस्य पूव्वखण्डे प्रथमे भागे ॥) नीलोत्पलम् । चन्दनम् । इति राजनिर्घण्टः ॥ ग्रन्थिपर्णम् । इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=सुगन्धम्&oldid=177135" इत्यस्माद् प्रतिप्राप्तम्