सामग्री पर जाएँ

सुग्रीवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुग्रीवः, पुं, (शोभना ग्रीवा यस्य । विष्णोरश्वः । (यथा, महाभारते । २ । २ । १४ । “प्रययौ पुण्डरीकाक्षः शैव्यसुग्रीववाहनः ॥”) शाखामृगेश्वरः । इति मेदिनी ॥ स तु सूर्य्य- पुत्त्रः किष्किन्धाधिपतिः श्रीरामचन्द्रस्य सखा यथा, वल्मीकीये रामायणे बालकाण्डे १७ सर्गे । “वानरेन्द्रं महेन्द्राभमिन्द्रो बालिनमात्मजम् । सुग्रीवं जनयामास तपनस्तपतां वरः ॥” किञ्च तत्रैव किष्किन्धाकाण्डे ५ सर्गे । “दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्च्य सत्कृतम् । तयोर्मध्ये तु सुप्रीतो निदधौ सुसमाहितः ॥ ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् । सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ॥” * ॥ अर्हत्पिता । स च वर्त्तमानयुगीयनवमजिन- पिता । इति हेमचन्द्रः ॥ शिवः । इन्द्रः । राजहंसः । असुरः । पर्व्वतविशेषः । अस्त्र- विशेषः । नागभेदः । इति केचित् ॥ शोभन- ग्रीवायुक्ते, त्रि । इति विश्वः ॥

"https://sa.wiktionary.org/w/index.php?title=सुग्रीवः&oldid=177180" इत्यस्माद् प्रतिप्राप्तम्