सुतपाः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुतपाः, [स्] पुं, (सुष्ठु तपतीति । सु + तप् + “गतिकारकरोःपूर्व्वपदप्रकृतिस्वरत्वम् ।” उणा० ४ । २२६ । इति असिः ।) सूर्य्यः । इति सिद्धान्त- कौमुदी ॥ शोभनं तपो यस्य । मुनिः ॥ (रौच्य- मनुपुत्त्रविशेषः । इति मार्कण्डे यपुराणम् । ९४ । २५ ॥ विष्णुः । इति महाभारतम् । १३ । १४९ । ३४ ॥ उग्रतपस्यायुक्ते, त्रि । यथा, कथासरित्सागरे । ११२ । १४१ । “स एव जातः संकल्पदोषाद्दाशकुले द्विजः । भार्य्यास्य सा च सुतपा जातैषा ते सुता नृप ॥”)
