सुतराम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुतराम्, व्य, (सु + द्विवचनविभज्येत्यादिना तरप् ।) अवधारितार्थप्रतिपादकम् । यथा । क्रियैव काल इति मते तु सुतरां नाधिकरणता । इति सपिण्डीकरणसमाख्यासिद्ध्यर्थं सुतरां तत्रतथा- चरणम् । इति च तिथ्यादितत्त्वम् ॥ अपि च । “अपुत्त्रा जन्मिनः पापात् प्राणिनः समव- स्थिताः । मनुजास्तत्र सुतरां भवन्ति गृहकर्म्मिणः ॥” इति पाद्ये सृष्टिखण्डे ४३ अध्यायः ॥ “शृणु द्विज महाबुद्धे दम्भेनापि स्मृतो हरिः । ददाति मोक्षं सुतरां किं पुनर्द्दम्भवर्ज्जनात् ॥” इति तत्रैव पातालखण्डम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुतराम्¦ अव्य॰ सु + अतिशयेऽर्थे तरप्--आमु। अवधारितार्थस्यअतिशयौचित्ये
“धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्य-माणः सुतरा दयालुः” रघुः। अत्र कातराक्ष्या धेन्वावृश्यमानत्वेन दयालुत्वस्य अतिशयौचित्यम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुतराम्¦ Ind.
1. Better, more excellently.
2. Consequently, of course.
3. Exceedingly.
4. More positively. E. सु good, तराम् aff.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुतराम्/ सु--तराम् See. s.v.
सुतराम्/ सु-तराम् ind. (fr. 5. सु+ तराम्= तरम्)still more , in a higher degree , excessively( सुतराम् न, " still less " ; न स्, " very badly " ; मा स्, " in no way " , " by no means ") MBh. Ka1v. etc.