सामग्री पर जाएँ

सुतलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुतलः, पुं, (शोभनं तलं यत्र ।) अट्टालिका- बन्धः । नागलोकप्रभेदः । इति मेदिनी ॥ स तु पातालषष्ठखण्डः । तद्विवरणं यथा, -- “ततोऽधस्तात् सुतल उदारश्रवाः पुण्यश्लोको विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटुवामन- रूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैवपुनः प्रवेशित इन्द्रादिष्वविद्यमानया सुसमृद्धया श्रि- याभिजुष्टः स्वधर्मेणाराधयंस्तमेव भगवन्तमारा- धनोयमपगतसाध्वस आस्ते अधुनापि ।” इति श्रीभागवते । ५ । २४ । १८ ॥ (तथाच देवीभागवते । ८ । १९ । १३ -- ३२ । “ततोविलाधस्तात् प्रोक्तं सुतलाख्यं विलेश्वरम् पुण्यश्लोको बलिर्नाम आस्ते वैरोचनिर्मुने ! ॥ महेन्द्रस्य च देवस्य चिकिर्षुः प्रियमुत्तमम् । त्रिविक्रमोऽपि भगवान् सुतले बलिमानयत् ॥ त्रैलोक्यलक्ष्मीमाक्षिप्य स्थापितः किल दैत्य- राट् । इन्द्रादिष्वप्यलब्धा या सा स्रीस्तमनुवर्त्तते ॥ तमेव देवदेवेशमाराधयति भक्तितः । व्यपेतसाध्वसोऽद्यापि वर्त्तते सुतलाधिपः ॥ **** एवं दैत्यपतिः सोऽयं बलिः परमपूजितः । सुतले वर्त्तते यस्य द्वारपालो हरिः स्वयम् ॥ एकदा दिग्जये राजा रावणो लोकरावणः । प्रविशन् सुतले येन भक्तानुग्रहकारिणा ॥ पादाङ्गुष्टेन प्रक्षिप्तो योजनायुतमत्र हि ॥ एवम्भूतानुभावोऽयं बलिः सर्व्वसुखैकभुक् । आस्त सुतलराज्यस्थो देवदेवप्रसादतः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सुतलः&oldid=177228" इत्यस्माद् प्रतिप्राप्तम्