सुतहिवुकयोग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुतहिवुकयोगः, पुं, विवाहोक्तयोगविशेषः । यथा, ज्योतिःसारसंग्रहे । “सुतहिवुकवियद्विलग्नधर्म्मे- ष्वमरगुरुर्यदि दानवार्च्चितो वा । यदशुभमुपयाति तच्छुभं स्यात् शुभमतिवृद्धिमुपैति तत्प्रभावात् ॥” अपि च ज्योतिस्तत्त्वे । “लग्ने तत्पञ्चमे तूर्य्ये नवमे दशमे तथा । गुरुर्भृ गुर्व्वा दोषघ्नो विवाहे वर्द्धते शुभम् ॥” अयमेव सुतहिवुकयोगः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुतहिवुकयोग¦ पु॰
“सुतहिवुकवियद्विलग्नधर्मेष्वमरगुरु-र्यदि दानवार्चितो वा। यदशुभमुपयाति तच्छुभं स्यात्” ज्यो॰ उक्ते वैवाहिकलग्नात् सुत
५ हिवुका
४ दिस्थितेग्रहभेदरूपे योगे।