सुतहिवुकयोगः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुतहिवुकयोगः, पुं, विवाहोक्तयोगविशेषः । यथा, ज्योतिःसारसंग्रहे । “सुतहिवुकवियद्विलग्नधर्म्मे- ष्वमरगुरुर्यदि दानवार्च्चितो वा । यदशुभमुपयाति तच्छुभं स्यात् शुभमतिवृद्धिमुपैति तत्प्रभावात् ॥” अपि च ज्योतिस्तत्त्वे । “लग्ने तत्पञ्चमे तूर्य्ये नवमे दशमे तथा । गुरुर्भृ गुर्व्वा दोषघ्नो विवाहे वर्द्धते शुभम् ॥” अयमेव सुतहिवुकयोगः ॥
