सामग्री पर जाएँ

सुतीक्ष्णः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुतीक्ष्णः, पुं, (सुष्ठु तीक्ष्णः ।) शोभाञ्जनः । इति जटाधरः ॥ श्वेतशिग्रुः । इति राजनिर्घण्टः ॥ मुनिविशेषः । यथा, भट्टौ ४ सर्गे । “पुरो रामस्य जुहवाञ्चकार ज्वलने वपुः । शरभङ्गः प्रदिश्यारात् सुतीक्ष्णमुनिकेतनम् ॥” अतिशयखरे, त्रि ॥ (यथा, ऋतुसंहारे । ६ । २८ “समदमधुकराणां कोकिलानानाञ्च नादैः कुसुमितसहकारैः कर्णिकारैश्च रम्यैः । इषुभिरिव सुतीक्ष्णै र्मानसं मानिनीनां तुदति कुसुमबाणो मन्मथोद्दीपनाय ॥”)

"https://sa.wiktionary.org/w/index.php?title=सुतीक्ष्णः&oldid=177246" इत्यस्माद् प्रतिप्राप्तम्