सुदन्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुदन्, [त्] त्रि, (शोभना दन्ता यस्य । “वयसि दन्तस्य दतृ ।” ५ । ४ । १४१ । इति दतृ ।) शोभनदन्तविशिष्टः । (स्त्रियां ङीप् । यथा, रघुः । ६ । ३७ । “विधाय सृष्टिं ललितां विधातु- र्जगाद भूयः सुदतीं सुनन्दा ॥” शोभनो दत् दन्तः इति विग्रहे सुदत् इत्येव स्यात् । शोभनदन्तः । यथा, भागवते । ३ । २३ । ३२ । “सुश्रुवा सुदता श्लक्ष्णस्निग्धापाङ्गेन चक्षुषा । पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम् ॥”)
