सामग्री पर जाएँ

सुदर्शनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुदर्शनः, पुं, क्ली, (शोभनं दर्शनमस्येति ।) विष्णु- चक्रम् । इत्यमरः । १ । १ । २९ । तस्योत्- पत्तिर्यथा, -- “तस्मात् प्रसादं कुरु मे यद्यनुग्रहभागहम् । अपनेष्यामि ते तेजः कृत्वा यन्त्रे दिवाकर ॥ रूपं तव करिष्यामि लोकानन्दकरं प्रभो । तथेत्युक्तः स रविणा भ्रमौ कृत्वा दिवाकरम् ॥ पृथक् चकार तत्तेजश्चक्रं विष्णोरकल्पयत् । त्रिशूलञ्चापि रुद्रस्य वज्रमिन्द्रस्य चाधि- कम् । दैत्यदानवसंहर्त्तुः सहस्रकिरणात्मकम् ॥” इति मात्स्ये । ११ । २७-३० ॥ * ॥ अपि च पाद्मोत्तरखण्डे १४५ अध्याये । तथा सौदर्शनं मन्त्रं मनस्तत्त्वं निवेशयेत् ॥ मनोऽनुरूपेणास्यैव सजीवकरणं स्मृतम् । आरेषु मूर्त्तयो न्यस्याः केशवाद्याः सुरोत्तमाः ॥ नाभ्यक्षप्रतिनेमीषु न्यसेत्तत्त्वानि देशिकः । नारसिंहं विश्वरूपमक्षमध्ये निवेशयेत् ॥ सकलं विन्यसेद्दण्डे सूत्रात्मानं सजीवकम् । निष्कलं परमात्मानं ध्वजे ध्यायन् न्यसेद्धरिम् ॥ तच्छक्तिं व्यापिनीं ध्वायेत् ध्वजरूपाञ्चला- ननाम् । ततो मण्डपमध्येतु स्नाप्य पुज्य यथाविधि ॥ पूर्व्वोक्ते न विधानेन होमं कुण्डेषु कारयेत् ॥ ततः प्रभातसमये मूर्त्तिपैः सह देशिकः । मूर्त्तिपः आचार्य्यः । कलसे स्वर्णशकलं न्यस्त्वा रत्नानि पञ्च च । स्थापयेच्चक्रमन्त्रेण स्वर्णचक्रमधस्ततः ॥ पारदेन तु संप्लाव्य नेत्रपट्टेन स्थापयेत् । ततो निवेशयेच्चक्रं द्वादशारं सुदर्शनम् ॥ दुर्निरोक्ष्यं सुरैर्द्दैत्यैर्भ्रमद्वह्निस्फुलिङ्गकम् । तन्मध्ये चिन्तयेद्देवं नृसिंहं दैत्यनिर्द्दलम् ॥ स्फुरत्सौदामिनीजिह्वं ज्वलज्ज्वलनकेशरम् । दीप्तार्कनयनं चन्द्रकोटिभास्वरदंष्ट्रिणम् ॥ तप्तस्य तपनीयस्य सदृज्ञं परुषाननम् । सर्व्वदुष्टहरं देवं दुष्प्रेक्ष्यं देवदानवैः ॥ सर्व्ववर्णान्तबीजेन चतुर्द्द शयुतेन च । बिन्दुनालङ्कृतेनादौ प्रणवेन प्लुतेन च । अन्ते प्रणतियुक्तेन स्थापयेद्दूष्टनाशनम् ॥” इति श्रीहरिभक्तिविलासे १९ विलासः ॥ * ॥ चक्रमन्त्रो यथा । ओ~ नमो भगवते सुदर्शनाय निर्णाशितसकलरिपुध्वजाय भगवन्नारायण- कराम्भोरुहस्पर्शदुर्ल्ललिताय । “एह्येहि त्वं सहस्रार चक्रराज सुदर्शन । यज्ञभागं प्रगृह्यस्व पूजाञ्चैव नमो नमः ॥” इति च तत्रैव १५ विलासः ॥ सुमेरुः । जम्बूवृक्षः । इति मेदिनी ॥ (यथा, मात्स्ये । ११३ । ७४ -- ७५ । “सुदर्शनो नाम महान् जम्बूवृक्षः सनातनः । नित्यपुष्पफलोपेतः सिद्धचारणसेवितः ॥ तस्य नाम्ना समाख्यातो जम्बूद्वीपो वनस्पतेः । योजनानां सहस्रञ्च शतधा च महान् पुनः ॥ उत्सेधो वृक्षराजस्य दिवमावृत्य तिष्ठति ॥”) वृत्तार्हत्पिता । जिनानां बलदेवः । इति हेम- चन्द्रः ॥ (मत्स्यः । तत्पर्य्यायो यथा, -- “मत्स्यो मीनो विसारश्च झषो वैसारिणोऽण्डजः शकुली पृथुरोमा च स सुदर्शन इत्यपि । रोहिताद्यास्तु ये जीवास्तेमत्स्याःपरिकीर्त्तिताः ॥” इति भावप्रकाशस्य पूर्वखण्डे द्वितीये भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=सुदर्शनः&oldid=177269" इत्यस्माद् प्रतिप्राप्तम्