सामग्री पर जाएँ

सुदर्शनचूर्णम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुदर्शनचूर्णम्, क्ली, (सुदर्शनं सुदृश्यं चूर्णं यस्य ।) ज्वररोगस्य औषधविशेषः । यथा, -- “त्रिफला रजनीयुग्मं कण्टकारीयुगं शटी । त्रिकटु ग्रन्थिकं मूर्व्वा गुडुची धन्वयासकः ॥ कटुका पर्पटो मुस्तं त्रायमाणा च वालु- कम् । निम्बं पुष्करमूलञ्च मधुयष्टी च वत्सकः ॥ यवानीन्द्रयवो भार्गो शिग्रुबीजं सुराष्ट्रजा । वचा त्वक् पद्मकोशीरचन्दनातिविषाबलाः ॥ शालिपर्णी पृश्निपर्णी विडङ्गं तगरं तथा । चित्रकं देवकाष्ठञ्च चव्यं पत्रं पटोलजम् ॥ जीवकर्षभकौ चैव लवङ्गं वंशलोचना । पुण्डरीकञ्च काकोलिपत्रकं जातिपत्रकम् ॥ तालीशपत्रमेतानि समभागानि चूर्णयेत् । अर्द्धांशं सर्व्वचूर्णस्य किरातं प्रक्षिपेत् सुधीः ॥ एतत् सुदर्शनं नाम चूर्णं दोषत्रयापहम् । ज्वरांश्च निखिलान् हन्यान्नात्र कार्य्या विचा- रणा ॥ पृथग्द्वन्द्वागन्तुजांश्च धातुस्थान् विषमज्वरान् । सन्निपातोद्भवांश्चापि मानसानपि नाशयेत् ॥ शीतादीनपि दाहादीन् मोहं तन्द्रां भ्रमं तृषाम् । कासं श्वासञ्च पाण्डु ञ्च हृद्रोगं कामलापि च ॥ त्रिकपृष्ठकटीजानुपार्श्वशूलञ्च नाशयेत् । शीत्यम्बुना पिवेदेतत् सर्व्वज्वरनिवृत्तये ॥ मुदर्शनं यथा चक्रं दानवानां विनाशनम् । तद्वज्जराणां सर्व्वेषां चूर्णमेतत् प्रणाशनम् ॥” * पुष्करमूलाभावे कुष्ठमपि दद्यात् । भार्ग्य भावे कण्टकारीमूलम् । सौराष्ट्र्यभावे स्फुटिकां दद्यात् । तगरालाभे कुष्ठं देयम् । जीवकर्ष- भयोरभावे विदारीकन्दस्य भागद्वयं दद्यात् । पुण्डरीकं श्वेतकमलम् । काकोल्यभावे अश्व- गन्धामूलं दद्यात् । तालीशपत्रकाभावे स्वर्ण- ताली प्रदीयते इति । अथवा कण्टकारीजटा देया । इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=सुदर्शनचूर्णम्&oldid=177273" इत्यस्माद् प्रतिप्राप्तम्