सुदायः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुदायः, पुं, (सुष्ठु दीयते इति । सु + दा + घञ् युगागमः ।) देययौतकादि । इत्यमरः । २ । ८ । २८ ॥ यथा । यौतक आदिना उपनयन- भिक्षाप्रसादादि च यत् देयं तत् दायहरण- पदवाच्यम् । कन्यादानकाले जामात्रादिभ्यो व्रतभिक्षादौ ब्राह्मणादिभ्यश्च यद्द्रव्यं दीयते तत्र दायादिद्वयमित्यर्थः । युतकं योनिसम्बन्धः तत्र भवमिति ष्णे यीतकम् । युतयोर्व्वधूवरयोरिद- मिति वा कणि यौतुकम् । यौतुकमुकारमध्य- मपि । यौतकं यौतुकञ्च तत् । इति वाचस्पतिः दीयते दायः कर्म्मणि घञ् सुष्ठुदीयते सुदाय इति पाठ इत्यन्ये । इति भरतः ॥ पितृमातृ- भर्त्तृकुलसम्बन्धी । यथा, -- “सुदायेभ्यःपितृमातृभत्तृ कुलसम्बन्धिभ्यो लब्धं सौदायिकम् ।” इति दायतत्त्वम् ॥
