सुद्युम्नः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुद्युम्नः, पुं, वैवस्वतमनुपुत्त्रः । स तु इडराजः । यथा, वह्निपुराणे सागरोपाख्याननामाध्याये । “जलक्रीडागतो यत्र पार्व्वत्या सहितो हरः । स्त्रीरूपधारिभिर्व्वालस्ततः स हिमवद्विरौ ॥ ततोऽविशदिडस्तत्र मृगयाकृष्टचेतनः । वभूव नृपतिः सद्यः सानुयात्रबलान्वितः ॥ इदं स्त्रीलिङ्गमापन्नः प्रतिभ्रमति कानने । ततो बुधाश्रमं प्रायादिडारूपाश्रया सती ॥ बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता । सोमपुत्त्राद्बुधाद्राजन् तस्या जज्ञे पुरूरवाः ॥ जनयित्वा पुनः सा तं पुनः सुद्युम्नतां गता । प्रसादात् शङ्करस्यापि बुधेनाराधितस्य च ॥ सुद्युम्नस्य तु दायादः स्रवः परमधार्म्मिकः ॥”
