सुधर्म्मा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुधर्म्मा, स्त्री, (शोभनो धर्म्मोऽस्यामिति । अनिच् । ततः “डाबुभाभ्यामन्यतरस्याम् ।” ४ । १ । १३ । इति पक्षे डाप् ।) देवसभा । इत्य- मरः । १ । १ । ५१ ॥ (यथा, रघुः । १७ । २७ । “स राजककुदव्यग्रपाणिभिः पार्श्ववर्त्तिभिः । ययावुदीरितालोकः सुधर्म्मानवमां सभाम् ॥” “सुधर्म्माया देवसभाया अनवमां अन्यूनाम् ।” इति तट्टीकायां मल्लिनाथः ॥)
सुधर्म्मा, [न्] पुं, (सुष्ठु धर्म्मो यत्र । “धर्मादनिच् केवलात् ।” ५ । ४ । १२४ । इति अनिच् ।) देवसभा । कुटुम्बी । इत्युणादिकोषः । २ । १८७ ॥ (देवसभार्थे स्त्रीलिङ्गोऽपि भवति ॥ * ॥ सु + धृ + “मिथुने मनिः ।” उणा० ४ । १५१ । इति मनिः क्षत्त्रियः । इत्युज्ज्वलदत्तः ॥ सद्धर्म्मविशिष्टे, त्रि यथा, हरिवंशे । ११५ । ७५ । “सुधर्म्मणे सुधर्म्मां तां कृष्णायाक्लिष्टकारिणे । देवो देवसभां दत्त्वा वायुरन्तरधीयत ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुधर्म्मा¦ स्त्री सुष्ठु धर्मो यस्याः अनिच्समा॰ वा डाप्। देवस-भायाम् अमरः। गौरा॰ ङीष् सुधर्मीत्यप्यत्र। अमरटीका
