सुधीः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुधीः, पुं, (सु शोभना धीर्यस्य ।) पण्डितः । इत्यमरः । २ । ७ । ५ ॥
सुधीः, स्त्री, (शोभना धीः ।) सुन्दरबुद्धिः । सुष्ठुधीः । इति मुग्धबोधव्याकरणम् ॥ शोभना धीर्यस्य ।) शोभनबुद्धियुक्ते, त्रि ॥ (यथा, भट्टिः । १२ । ६ । “मात्रातिमात्रं शुभयैव बुद्ध्या चिरं सुधीरभ्यधिकं समाधात् ॥”)
