सामग्री पर जाएँ

सुनाभः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुनाभः, पुं, (सुष्ठु नाभिरस्य । अच् समासे ।) मैनाकपर्व्वतः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ३ । १० । ३० । “इन्द्रकीलः सुनाभश्च तथा दिव्यौ च पर्व्वतौ ॥” धृतराष्ट्रपुत्त्रविशेषः । यथा, तत्रैव । १ । ११७ । ५ । “उर्णनाभः सुनाभश्च तथानन्दोपनन्दकौ ॥” सुष्ठु नाभिश्चक्रमध्यमस्येति । सुदर्शनचक्रे, क्ली यथा, भागवते । ३ । ३ । ६ । “सुतं मृधे खं वपुषा ग्रसन्त दृष्ट्वा सुनाभोन्मथितं धरित्र्या । आमन्त्रितस्तत्तनयाय शेषं दत्त्वा तदन्तःपुरमाविवेश ॥” वाच्यलिङ्केऽपि दृश्यते । यथा, महाभारते । ३ । ३ । ४८ । “तत्तेजसा कृतं चक्रं सुनाभं विश्वकर्म्मणा । देवारीणां मदो येन नाशितः शार्ङ्गधन्वना ॥”)

"https://sa.wiktionary.org/w/index.php?title=सुनाभः&oldid=177395" इत्यस्माद् प्रतिप्राप्तम्