सुनामद्वादशी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुनामद्वादशी, स्त्री, (सुनामा द्वादशी । यद्वा, सुनामप्रिया द्वादशी ।) द्वादशमासीयद्वादश- कर्त्तव्यव्रतविशेषः । यथा, -- अम्बरीष उवाच । “कथं सुनामभिर्देवो द्वादश्यां मुनिसत्तम् । पूज्यते केशवो मर्त्त्यैर्भुक्तिकामफलार्थिभिः ॥ वशिष्ठ उवाच । शृणुष्वैकमना भूयः सुनामद्वादशीं शुभाम् । सर्व्वपापहरां स्वर्ग्यां भुक्तिमुक्तिप्रदायिकाम् ॥ मनसापि चिकीर्षन्ति ये द्वादशीं नरोत्तमाः । तेऽपि घोरं न पश्यन्ति पुनः संसारसागरम् ॥ आद्यं सर्व्वव्रतानान्तु वैष्णवानां नृपोत्तम । नरैः स्त्रीभिश्च कर्त्तव्यं विष्णोस्तुष्टिकरं परम् ॥ * मार्गशीर्षे शुभे मासि शुक्लपक्षे यतव्रतः । प्रथमं चैव गृह्णोयात् द्वादशों विधिवन्नरः ॥ मनोवाक्कायचेष्टाभिः स विशुद्धो जितेन्द्रियः । दशम्यां नियतः स्नात्वा प्रणिंपत्य जनार्द्दनम् ॥ हविष्यान्नकृताहारः शुचिर्भूत्वा भवेद्व्रती । उपलिप्ते शुचौ देशे भक्षयेत् दन्तधावनम् ॥ उपोष्यैकादशीं सम्यक् पूजयित्वा जनार्द्दनम् । सुनामद्वादशीं देव अहं भोक्ष्ये परेऽहनि ॥ एवं सङ्कल्प्य नियमं प्रणम्य गरुडध्वजम् । दशम्यामेकभक्ताशी संयतः संवसेन्निशाम् ॥ एकादश्यां ततः कुर्य्यादेकचित्तः समाहितः । पूर्व्वं प्रपूजयेत् सूर्य्यं ततोदेवं प्रपूजयेत् ॥ नमस्ते देवदेवेश नमस्ते भक्तवत्सल । भास्कराय नमस्तुभ्यं रवये कार्य्यभानवे ॥ नमः सूर्य्याय देवाय नमस्ते सप्तसप्तये । एकस्मै हि नमस्तुभ्यमेकचक्ररथाय च ॥ ज्योतिषां पतये नित्यं सव्वतेजोहराय च । दिवाकर नमस्तेऽस्तु प्रभाकर नमोऽस्तु ते ॥ एवं संपूज्य विधिवत् पुष्पधूपानुलेपनैः । दीपैर्व्वस्त्रैः सुनैवेद्यैस्ततो विष्णुगृहं व्रजेत् ॥ ततोऽनु स्नापयेद्देवं दधिक्षीरघृतादिभिः । सर्व्वौषधिजलैः पुण्यैस्तथा चन्दनवारिभिः ॥ कुङ्कमोशीरकपूरैश्चन्दनेन विलेपयेत् । अच्युतं चार्च्चयेद्भक्त्या मालतीकुसुमैर्भृशम् ॥ गुग्गुलुं घृतसंयुक्तं धूपं दद्यादहर्निशम् । पायसापूपसंयावकरम्भाज्यकदम्बकैः ॥ नैवेद्यं हरये दद्यात् फलमोदकंयान्वितैः । गीतवाद्यैर्हरेर्ह्येष प्रणमेच्च मुहुर्मुहुः ॥ एवं पूजां हरेः कृत्वा द्विजं ज्ञानप्रदायकम् । पूजयेदन्तरं नास्ति विप्रकेशवयोरपि ॥ ततोऽव्रणं समालभ्य चन्दनेन नवं घटम् । स्रग्विणं तोयसम्पूर्णं न्यसेद्देवस्य सन्निधौ ॥ सहेममौक्तिकाक्षन्तु वज्ररत्नसुवर्णकम् । न्यस्य गर्भे सवस्त्रन्तु पूजयेत्तत्र केशवम् ॥ यस्य रोम्नि स्थिता मेघाः सर्व्वसन्धिषु पन्नगाः ॥ सागराः कुक्षिदेशस्थाः सोऽत्रायातु जगत्पति । वनस्पतिरसो दिव्यः सर्व्वगन्धेषु चोत्तमः । घृतेन सहसोन्मिश्रो धूपोऽयं प्रतिगृह्यताम् ॥ केशवः केशिहा केशिकंसारिष्टनिसूदनः । जातीपल्लवसंयुक्ताः सफलाश्च सकाञ्चनाः । पुण्याहवेदशब्देन वीणावेणुरवेण च ॥ शब्देन मधुरेणैव सूतमागघवन्दिनाम् । एवं संस्थाप्य गोविन्दं स्वनुलिप्तं स्वलङ्कृतम् ॥ सुवासं पूजयेत्तन्तु सुमनोभिश्च कुङ्कुमैः । दीपैर्धूपैर्मनोज्ञैश्च पायसेन तु भूरिणा ॥ नानारत्नप्रदानैश्च होमैः पुण्यैः सदक्षिणैः । वासोभिर्भूषणैर्हृद्यैर्गीभिरश्वैर्गजैरपि ॥ ब्राह्मणाः पूजनीयाश्च विष्णोराद्याः सुमूर्त्तयः । विष्णो रात्रौ प्रसुप्तस्य दामोदरगतं यतः ॥ ब्रह्माण्डस्य च तेनासि दामोदर इति स्मृतः । दामोदर इमां धेनुं गृह्णातु स्वयमेव हि ॥ द्विजरूपेण ते विष्णो प्रकृत्येषा सनातनी । इत्येवं पृथिवीदानात् फलं प्राप्नोति मानवः ॥ सुवर्णस्य महाधेनुं दत्त्वा नृपवरोत्तमः । हत्वा पापान्यशेषाणि शतजन्मान्तराणि वै ॥ वैष्णवं लोकमाप्नोति यावदिन्द्राश्चतुर्द्दश । सम्यगत्र व्रते चीर्णे सप्तजन्मानुगं फलम् ॥ ददाति भगवान् विष्णुः कामान् मोक्षं नरेश्वर । ब्राह्मणान् भोजयेद्भक्त्या भक्षैरुच्चावचैरपि ॥ ततः प्रदक्षिणं कृत्वा यथाशक्त्या च दक्षिणाम् । कलसान् द्वादशैवैवं ब्राह्मणेभ्यः प्रदापयेत् ॥ वस्त्रेणावेष्टितग्रीवान् हेमगर्भोपशोभितान् । दधिक्षीरयुतांश्चै व सगुडान् नृप भूरिशः । शक्तिर्यथा तथा दद्यात् भक्तिरेवात्र कारणम् ॥ प्रसङ्गेनापि यो राजन् सुनामद्वादशीं नरः । करोति पुण्यभागी स यथा दैत्योद्भवो बलिः ॥ एवं यः कुरुते राजन् सुनामद्वादशीं नरः । राजसूयस्य यज्ञस्य फलं समधिकं भवेत् ॥ सर्व्वदानेषु यत् पुण्यं यच्च पुण्यं तपोवने । सर्व्वतीर्थेषु यत् पुण्यं तत् पुण्यं समुदाहृतम् ॥ गावो द्वादश दातव्या वस्त्रयुग्मानि काञ्चनम् । अलाभे चैव गामेकां पात्रं वा स्वर्णसंयुतम् ॥ मासे मासेऽथवाप्येवं चञ्चलं जीवितं यतः । बहुविघ्ना हि धर्म्मस्य कर्त्तुश्छिद्रं न जायते ॥ एतज्ज्ञात्वा सुमेधावी न तत्र ग्लपयेन्मनः । न तस्य वित्तलाभोऽस्ति भक्तिग्राह्यो हि केशवः ॥ अनेन विधिना यस्तु द्वादशीं प्रतिवत्सरम् । कृत्वा नरः परं याति विष्णुलोकमनामयम् ॥ सुनामद्वादशी चैव व्रतानामुत्तमा नृप । आद्या नरैस्तु कर्त्तव्या तोषयद्भिर्जनार्द्दनम् ॥ यश्चैनां कीत्तयेत् पुण्यां शृणुयात् द्वादशीं नरः ॥ तावुभौ गच्छतः स्वर्गं कर्त्ता विष्णुपुरं व्रजेत् ॥” इति वह्रिपुराणे सुनामद्वादशीनामाध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुनामद्वादशी¦ स्त्री व्रतभेदे व्रतशब्दे
५०
६६ पृ॰ दृश्यम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुनामद्वादशी/ सु--ना f. a partic. religious observance performed on the 12th day of the 12th month VahniP.
