सामग्री पर जाएँ

सुनिषण्णकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुनिषण्णकम्, क्ली, पुं, (सुनिषण्णमेव । स्वार्थे कन् ।) शाकविशेषः । सुषुणी इतिभाषा । तत्पर्य्यायः । वितुन्नम् २ । इत्यमरः । २ । ४ । १४९ ॥ सुनि- षणम् ३ चुचूः ४ । इति त्रिकाण्डशेषः ॥ (यथा, “शितिवारः शितिवरः स्वस्तिकः सुनिषण्णकः । श्रीवारकः सूचिपत्रः पर्णकः कुक्कुटः शिखी ॥ चाङ्गेरीसदृशं पत्रं चतुर्द्दल इतीरितः । शाको जलान्विते देशे चतुःपत्रीति चोच्यते ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) अस्य गुणाः । यथा, -- “अविदाही त्रिदोषघ्नः संग्राही सुनिषण्णकः ।” इति राजवल्लभः ॥ अन्यत् सितावरशब्दे द्रष्टव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=सुनिषण्णकम्&oldid=177412" इत्यस्माद् प्रतिप्राप्तम्