सामग्री पर जाएँ

सुपात्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुपात्रम्, क्ली, (सुष्ठु पात्रम् ।) योग्यव्यक्तिः । (यथा, भागवते । ७ । १४ । ४१ । “पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः । तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥”) तत्र दानविधिर्यथा, -- “तस्मात्मर्व्वात्मना पात्रे दद्यात्कनकदक्षिणाम् इति । सर्व्वेषामेव पात्राणां परं पात्रं महेश्वरः । पतन्तं त्रायते यस्मादतीव नरकार्णवादिति ॥ पात्र्याण्याध्यात्मिका मुख्या विशुद्धाश्चाग्नि- होत्रिणः । देवताश्च तथा मुख्या गोदानं ह्येतदुत्तममिति ॥ सर्व्वत्र गुणवद्दानं श्वपाकादिष्वपि स्मृ तम् । देशे काले विधानेन पात्रे दत्तं विशेषतः ॥” पात्रे विद्यातपस्यादिगुणयुक्ते । इति च प्राय- श्चित्ततत्त्वम् ॥ अपि च । “तस्मात् सर्व्वात्मना पात्रे दद्यात् कनकमुत्तमम् । अपात्रे पातयेद्दत्तं सुवर्णं नरकार्णवे ॥” इति शुद्धितत्त्वम् ॥ * ॥ शोभनभाजनम् । शोभनञ्च तत्पात्रञ्चेति कर्म्म- धारयसमासनिष्पन्नम् । उत्तमपात्रयुक्ते, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=सुपात्रम्&oldid=177470" इत्यस्माद् प्रतिप्राप्तम्