सुपार्श्वः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुपार्श्वः, पुं, (सुष्ठु पार्श्वोऽस्य ।) चतुर्व्विंशति- वृत्तार्हदन्तर्गतवृत्तार्हद्विशेषः । इति हेमचन्द्रः ॥ प्लक्षवृक्षः । इति राजनिर्घण्टः ॥ पक्षिविशेषः । स तु सम्पातिपुत्त्रः । यथा, -- “निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः ।” इत्युपक्रम्य । “क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् । तदाख्यातु भवान् सर्व्वं गतिर्भव वनौकसाम् ॥ सहरीन् प्रतिसंमुक्तान् सीताश्रुतिसमाहितान् पुनराश्वासयन् प्रीत इदं वचनमब्रवीत् ॥ अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते । चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ॥ तं मामेवं गतः पुत्त्रः सुपार्श्वो नाम नामतः । आहारेण यथाकालं विभर्त्ति पततां वरः ॥” इति बाल्मीकीये रामायणे किष्किन्धाकाण्डे ५९ सर्गः ॥ (पीठस्थानविशेषः । यथा, देवी- भागवते । ७ । ३० । ६६ । “नारायणी सुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी ॥” इलावृतवर्षस्य पर्व्वतविशेषः । यथा, विष्णु- पुराणे । २ । २ । १७ “विपुलः पश्चिमे पार्श्वेसुपार्श्वश्चोत्तरे स्मृतः ॥)
