सुप्तः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुप्तः, त्रि, (स्वप् + क्तः ।) निद्रितः । तत्पर्य्यायः । निद्राणः २ शयितः ३ । इति हेमचन्द्रः ॥ तस्य बोधने विधिनिषेधौ यथा, -- “क्षुधितस्तृषितः कामी विद्यार्थी कृषिकारकः । भाण्डारी च प्रवासी च सप्त सुप्तान् प्रबोधयेत् ॥ मक्षिका भ्रमरी सर्पो राजा वै बालकस्तथा । परश्वापि च मूर्खश्च सप्त सुप्तान्न बोधयेत् ॥” (स्वकार्य्याक्षमः । यथा, -- “त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते आतन्यते सरागा च पर्व्वरुक्त्वग्गतेऽनिले ॥” इति माधवकरसंगृहीतरुग्विनिश्चये वात- व्याध्यधिकारे । ६ ॥)
