सुप्रतीकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुप्रतीकः, पुं, (शोभनाः प्रतीका अङ्गानि यस्य । ईशानदिग्गजः । इत्यमरः । १ । ३ । ४ ॥ (यथा, रघुः । ५ ७५ । “मदपटुनिनदद्भिर्बोधितो राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः ॥”) शिवः । कामदेवः । इति केचित् ॥ (साधुः । इति श्रीधरस्वामी ॥ यथा, भागवते । १० । ८ । ३१ । “एवं धार्ष्टान्यु शति कुरुते मेहनादीनि वास्ती स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथास्ते ॥” शोभनः प्रतीकः ।) शोभनाङ्गम् । तद्युक्ते, त्रि ॥ (यथा, भागवते । ५ । ३ । २ । “भगवान् भागवतवात्सल्यतया सुप्रतीक आत्मानमपराजितं निजजनाभिप्रेतार्थविधि- त्सया गृहीतहृदय इति ॥”)
